Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 49

Sabhāparva Adhyāya 49

सभापर्व • अध्यायः 49

Sabhāparva Adhyāya 49 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 2.49.1–26 • 250 Lexicon Terms
आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः । पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः । मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः । आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत । अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् । सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः । ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥
दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः । वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ । आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥
चेकितान उपासङ्गं धनुः काश्य उपाहरत् । असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः । नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः । जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् । महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः । धनंजयश्च व्यजने भीमसेनश्च पाण्डवः ॥
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः । तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा । तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् । उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् । प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा । धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥
सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः । विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् । शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च । न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥
यथातिमात्रं कौन्तेयः श्रिया परमया युतः । राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो । कथं नु जीवितं श्रेयो मम पश्यसि भारत ॥
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप । कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ॥
एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर । तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च ॥
← Previous (Ch. 273) Full Table of Contents Next (Ch. 275) →