Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 45

Sabhāparva Adhyāya 45

सभापर्व • अध्यायः 45

Sabhāparva Adhyāya 45 of the classical Mahābhārata with 59 verses.

Total: 59 Verses • Citations: MBh 2.45.1–59 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् । युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ॥
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् । प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् । उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥
दुर्योधनो महाराज विवर्णो हरिणः कृशः । दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ॥
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् । ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ॥
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक । श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् । चिन्तयंश्च न पश्यामि शोकस्य तव संभवम् ॥
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् । भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम् । आजानेया वहन्ति त्वां केनासि हरिणः कृशः ॥
शयनानि महार्हाणि योषितश्च मनोरमाः । गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥
देवानामिव ते सर्वं वाचि बद्धं न संशयः । स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक ॥
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा । अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ॥
अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः । क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥
संतोषो वै श्रियं हन्ति अभिमानश्च भारत । अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥
न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे । ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ॥
सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च । अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् । तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥
दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् । भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥
कदलीमृगमोकानि कृष्णश्यामारुणानि च । काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ॥
रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः । त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते । आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥
न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः । यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप । शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ॥
ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः । त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । एवं बलिं समादाय प्रवेशं लेभिरे ततः ॥
यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः । तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥
शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् । दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ॥
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ । तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ॥
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः । इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥
← Previous (Ch. 269) Full Table of Contents Next (Ch. 271) →