Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 5

Sabhāparva Adhyāya 5

सभापर्व • अध्यायः 5

Sabhāparva Adhyāya 5 of the classical Mahābhārata with 117 verses.

Total: 117 Verses • Citations: MBh 2.5.1–117 • 250 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतं च होष्यमाणं च काले वेदयते सदा ॥
कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः । उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः । राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः । कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ॥
कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । संप्राप्तकालं दातव्यं ददासि न विकर्षसि ॥
कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः । भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि ॥
कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान् । अनुशास्सि यथाकामं कामात्मा शासनातिगः ॥
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् । लभते मानमधिकं भूयो वा भक्तवेतनम् ॥
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् । यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ॥
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् । व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥
कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् । युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते । समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ॥
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ । अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् । बलस्य च महाराज दत्त्वा वेतनमग्रतः ॥
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप । उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः । पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥
कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः । साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते । तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः । बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ॥
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप । अविहाय महाराज विहंसि समरे रिपून् ॥
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव । अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ॥
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च । घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥
कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् । आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते । रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च । प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥
← Previous (Ch. 229) Full Table of Contents Next (Ch. 231) →