Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 207

Ādiparva Adhyāya 207

आदिपर्व • अध्यायः 207

Ādiparva Adhyāya 207 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 1.207.1–24 • 250 Lexicon Terms
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत । प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् । भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च । निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः । नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् । महानदीं गयां चैव गङ्गामपि च भारत ॥
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् । आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् । जगाम तानि सर्वाणि तीर्थान्यायतनानि च । दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः । सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥
स कलिङ्गानतिक्रम्य देशानायतनानि च । धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् । समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् । मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् । तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥
राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह । अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥
उग्रेण तपसा तेन प्रणिपातेन शंकरः । ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले । एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे । कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥
पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ ॥
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च । उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥
← Previous (Ch. 206) Full Table of Contents Next (Ch. 208) →