Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 205

Ādiparva Adhyāya 205

आदिपर्व • अध्यायः 205

Ādiparva Adhyāya 205 of the classical Mahābhārata with 31 verses.

Total: 31 Verses • Citations: MBh 1.205.1–31 • 250 Lexicon Terms
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परमप्रीता नागैरिव सरस्वती ॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते । कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते । शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः ॥
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् । आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् । कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः । तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः । आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥
अनापृच्छ्य च राजानं गते मयि न संशयः । अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । अधर्मो वा महानस्तु वने वा मरणं मम । शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः । अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत । ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह । यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी । शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः । आजगाम पुरं वीरः सव्यसाची परंतपः ॥
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः । धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥
समयः समतिक्रान्तो भवत्संदर्शनान्मया । वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् । कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया । युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् । सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसः । यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम । न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् । न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः । वने द्वादश वर्षाणि वासायोपजगाम ह ॥
← Previous (Ch. 204) Full Table of Contents Next (Ch. 206) →