Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 204

Ādiparva Adhyāya 204

आदिपर्व • अध्यायः 204

Ādiparva Adhyāya 204 of the classical Mahābhārata with 31 verses.

Total: 31 Verses • Citations: MBh 1.204.1–31 • 250 Lexicon Terms
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन । निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः । पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च । यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले । पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ । वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः । गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती । शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥
वरप्रदानमत्तौ तावौरसेन बलेन च । धनरत्नमदाभ्यां च सुरापानमदेन च ॥
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्परमथोचतुः ॥
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत । मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥
नैषा तव ममैषेति तत्र तौ मन्युराविशत् । तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले । रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा । पातालमगमत्सर्वो विषादभयकम्पितः ॥
ततः पितामहस्तत्र सह देवैर्महर्षिभिः । आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह । वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि । तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः । इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ । तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः ॥
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् । यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते । तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥
एवमुक्ता महात्मानो नारदेन महर्षिणा । समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः । समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् । स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥
एवं तैः समयः पूर्वं कृतो नारदचोदितैः । न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥
← Previous (Ch. 203) Full Table of Contents Next (Ch. 205) →