Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 61

Sabhāparva Adhyāya 61

सभापर्व • अध्यायः 61

Sabhāparva Adhyāya 61 of the classical Mahābhārata with 83 verses.

Total: 83 Verses • Citations: MBh 2.61.1–83 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर । न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् । तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥
वाहनानि धनं चैव कवचान्यायुधानि च । राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् । इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ॥
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः । त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ॥
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते । बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय ॥
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः । परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् । भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ॥
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् । दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥
एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय । दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः । क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः । अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ । समेत्य नाहतुः किंचिद्विदुरश्च महामतिः ॥
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च । अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः । कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा । विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः । न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् । पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥
विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन । मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ॥
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते । तथायुक्तेन च कृतां क्रियां लोको न मन्यते ॥
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् । समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥
साधारणी च सर्वेषां पाण्डवानामनिन्दिता । जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना । एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत । विकर्णं शंसमानानां सौबलं च विनिन्दताम् ॥
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः । प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि । तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ॥
एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया । धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ॥
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे । यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ॥
← Previous (Ch. 285) Full Table of Contents Next (Ch. 287) →