Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 53

Sabhāparva Adhyāya 53

सभापर्व • अध्यायः 53

Sabhāparva Adhyāya 53 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 2.53.1–26 • 250 Lexicon Terms
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः । अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः । न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह । शकुने मैव नो जैषीरमार्गेण नृशंसवत् ॥
योऽन्वेति संख्यां निकृतौ विधिज्ञ;श्चेष्टास्वखिन्नः कितवोऽक्षजासु । महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु ॥
अक्षग्लहः सोऽभिभवेत्परं न;स्तेनैव कालो भवतीदमात्थ । दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः ॥
एवमाहायमसितो देवलो मुनिसत्तमः । इमानि लोकद्वाराणि यो वै संचरते सदा ॥
इदं वै देवनं पापं मायया कितवैः सह । धर्मेण तु जयो युद्धे तत्परं साधु देवनम् ॥
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत । अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ॥
शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे । तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ॥
नाहं निकृत्या कामये सुखान्युत धनानि वा । कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ॥
श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर । विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे । देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥
आहूतो न निवर्तेयमिति मे व्रतमाहितम् । विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥
अस्मिन्समागमे केन देवनं मे भविष्यति । प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ॥
अहं दातास्मि रत्नानां धनानां च विशां पते । मदर्थे देविता चायं शकुनिर्मातुलो मम ॥
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे । एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ॥
उपोह्यमाने द्यूते तु राजानः सर्व एव ते । धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः । नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ॥
ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः । सिंहासनानि भूरीणि विचित्राणि च भेजिरे ॥
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः । देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः । प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥
अयं बहुधनो राजन्सागरावर्तसंभवः । मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव । भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ॥
सन्ति मे मणयश्चैव धनानि विविधानि च । मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ॥
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
← Previous (Ch. 277) Full Table of Contents Next (Ch. 279) →