Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 30

Sabhāparva Adhyāya 30

सभापर्व • अध्यायः 30

Sabhāparva Adhyāya 30 of the classical Mahābhārata with 55 verses.

Total: 55 Verses • Citations: MBh 2.30.1–55 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् । शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् । निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥
सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् । विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः ॥
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् । राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ॥
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् । सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् । अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ॥
धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् । कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥
स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः । विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥
सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् । यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम् ॥
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः । ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ॥
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह । भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा । बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ॥
उच्चावचमुपादाय धर्मराजाय माधवः । धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥
तं धनौघमपर्यन्तं रत्नसागरमक्षयम् । नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ॥
असूर्यमिव सूर्येण निवातमिव वायुना । कृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥
तं मुदाभिसमागम्य सत्कृत्य च यथाविधि । संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥
धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः । भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ॥
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते । धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत । उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ॥
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया । अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥
स दीक्षापय गोविन्द त्वमात्मानं महाभुज । त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो । अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् । त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् । संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते । नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥
सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम । यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह । ईहितुं राजसूयाय साधनान्युपचक्रमे ॥
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः । सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः । तथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥
अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि । समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥
← Previous (Ch. 254) Full Table of Contents Next (Ch. 256) →