Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 31

Sabhāparva Adhyāya 31

सभापर्व • अध्यायः 31

Sabhāparva Adhyāya 31 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 2.31.1–26 • 250 Lexicon Terms
स गत्वा हास्तिनपुरं नकुलः समितिंजयः । भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः । संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ॥
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ । द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत । समुपादाय रत्नानि विविधानि महान्ति च ॥
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः । दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः । गान्धारराजः सुबलः शकुनिश्च महाबलः ॥
अचलो वृषकश्चैव कर्णश्च रथिनां वरः । ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः । अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः । प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ॥
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः । पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा । आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ॥
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा । कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ॥
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते । विराटः सह पुत्रैश्च माचेल्लश्च महारथः । राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥
शिशुपालो महावीर्यः सह पुत्रेण भारत । आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः ॥
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः । गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च । वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥
एते चान्ये च बहवो राजानो मध्यदेशजाः । आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ॥
ददुस्तेषामावसथान्धर्मराजस्य शासनात् । बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् । सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् । सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ॥
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् । सुखारोहणसोपानान्महासनपरिच्छदान् ॥
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः । हंसांशुवर्णसदृशानायोजनसुदर्शनान् ॥
असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः । बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ॥
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् । वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ॥
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः । भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ॥
← Previous (Ch. 255) Full Table of Contents Next (Ch. 257) →