Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 165

Ādiparva Adhyāya 165

आदिपर्व • अध्यायः 165

Ādiparva Adhyāya 165 of the classical Mahābhārata with 45 verses.

Total: 45 Verses • Citations: MBh 1.165.1–45 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः । वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते । पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ । गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥
स चचार सहामात्यो मृगयां गहने वने । मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः । विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत । तथैव प्रतिजग्राह वन्येन हविषा तथा ॥
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च । षड्रसं चामृतरसं रसायनमनुत्तमम् ॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च । लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥
तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः । सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् । मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् । पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् । अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः । नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥
देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी । अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः । ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् । स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः । यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥
कशादण्डप्रतिहता काल्यमाना ततस्ततः । हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी । भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः । बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥
सा तु तेषां बलान्नन्दी बलानां भरतर्षभ । विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् । विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः । न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् । क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे । अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥
← Previous (Ch. 164) Full Table of Contents Next (Ch. 166) →