Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 165

Ādiparva Adhyāya 165

आदिपर्व • अध्यायः 165

Ādiparva Adhyāya 165 of the classical Mahābhārata with 45 verses.

Total: 45 Verses • Citations: MBh 1.165.1–45 • 250 Lexicon Terms • Page 2 of 2 (Verses 15 shown)
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते । दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी । ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना । विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः । क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ । अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् । मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा । तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा । नानावरणसंछन्नैर्नानायुधधरैस्तथा । अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः । अस्त्रवर्षेण महता काल्यमानं बलं ततः । प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा । विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् । क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । बलाबलं विनिश्चित्य तप एव परं बलम् ॥
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् । भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा । तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च । अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥
← Previous (Ch. 164) Full Table of Contents Next (Ch. 166) →