Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 138

Ādiparva Adhyāya 138

आदिपर्व • अध्यायः 138

Ādiparva Adhyāya 138 of the classical Mahābhārata with 32 verses.

Total: 32 Verses • Citations: MBh 1.138.1–32 • 250 Lexicon Terms
तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥
असकृच्चापि संतीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥
घोरा समभवत्संध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥
एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले । भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥
शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥
स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः । कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥
अश्विनाविव देवानां याविमौ रूपसंपदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथंचित्तस्य शासनात् ॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥
नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥
← Previous (Ch. 137) Full Table of Contents Next (Ch. 139) →