Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 45

Śalyaparva Adhyāya 45

शल्यपर्व • अध्यायः 45

Śalyaparva Adhyāya 45 of the classical Mahābhārata with 96 verses.

Total: 96 Verses • Citations: MBh 9.45.1–96 • 250 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
शृणु मातृगणान्राजन्कुमारानुचरानिमान् । कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥
English Translation
Vaishampayana said Listen now to the numbers of the mothers, those destroyers of foes, O hero that became the companions of Kumara, as I name them.
यशस्विनीनां मातॄणां शृणु नामानि भारत । याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥
English Translation
Listen, O, Bharata, to the names of those illustrious mothers. The mobile and immobile universe is permeated by those auspicious ones.
प्रभावती विशालाक्षी पलिता गोनसी तथा । श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥
अप्सुजाता च गोपाली बृहदम्बालिका तथा । जयावती मालतिका ध्रुवरत्ना भयंकरी ॥
वसुदामा सुदामा च विशोका नन्दिनी तथा । एकचूडा महाचूडा चक्रनेमिश्च भारत ॥
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना । शत्रुंजया तथा चैव क्रोधना शलभी खरी ॥
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत । गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥
मेघस्वना भोगवती सुभ्रूश्च कनकावती । अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना । संतानिका च कौरव्य कमला च महाबला ॥
सुदामा बहुदामा च सुप्रभा च यशस्विनी । नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥
शतघण्टा शतानन्दा भगनन्दा च भामिनी । वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥
संकारिका निष्कुटिका भ्रमा चत्वरवासिनी । सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ॥
धनदा सुप्रसादा च भवदा च जलेश्वरी । एडी भेडी समेडी च वेतालजननी तथा । कण्डूतिः कालिका चैव देवमित्रा च भारत ॥
लम्बसी केतकी चैव चित्रसेना तथा बला । कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥
कुण्डारिका कोकलिका कण्डरा च शतोदरी । उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥
मनोजवा कण्टकिनी प्रघसा पूतना तथा । खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ॥
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी । सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ॥
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला । पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ॥
पक्षालिका मन्थनिका जरायुर्जर्जरानना । ख्याता दहदहा चैव तथा धमधमा नृप ॥
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला । अमोचा चैव कौरव्य तथा लम्बपयोधरा ॥
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला । शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा । जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ॥
कालेडिका वामनिका मुकुटा चैव भारत । लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ॥
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत । क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥
चतुष्पथनिकेता च गोकर्णी महिषानना । खरकर्णी महाकर्णी भेरीस्वनमहास्वना ॥
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला । गणा च सुगणा चैव तथाभीत्यथ कामदा ॥
चतुष्पथरता चैव भूतितीर्थान्यगोचरा । पशुदा वित्तदा चैव सुखदा च महायशाः । पयोदा गोमहिषदा सुविषाणा च भारत ॥
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना । गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा । एकचक्रा मेघरवा मेघमाला विरोचना ॥
एताश्चान्याश्च बहवो मातरो भरतर्षभ । कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ॥
English Translation
These and many other mothers, O foremost of Bharata's race, numbering by thousands, of diverse forms, became the followers of Kartikeya.
← Previous (Ch. 1263) Full Table of Contents Next (Ch. 1265) →