Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 112

Ādiparva Adhyāya 112

आदिपर्व • अध्यायः 112

Ādiparva Adhyāya 112 of the classical Mahābhārata with 35 verses.

Total: 35 Verses • Citations: MBh 1.112.1–35 • 250 Lexicon Terms
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥
त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम् । अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् । सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥
आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥
कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥
तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥
छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥
अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम् । दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् ॥
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥
आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥
सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥
तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥
← Previous (Ch. 111) Full Table of Contents Next (Ch. 113) →