Ādiparva Adhyāya 111
आदिपर्व • अध्यायः 111
Ādiparva Adhyāya 111 of the classical Mahābhārata with 37 verses.
Total: 37 Verses
•
Citations: MBh 1.111.1–37
•
250 Lexicon Terms
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसंघानां बभूव प्रियदर्शनः ॥
Morphemic Decomposition & Padaccheda
तत्रापि
तत्र [ind]
तत्रापि
अपि [ind]
तपसि
तपस् [n]
श्रेष्ठे
श्रेष्ठ [adj]
वर्तमानः
वृत् [3. P.]
स
तद् [pron]
वीर्यवान्
वीर्यवत् [adj]
सिद्धचारणसंघानां
सिद्ध [m]
सिद्धचारणसंघानां
चारण [m]
सिद्धचारणसंघानां
संघ [m]
बभूव
भू [1. Ā.]
प्रियदर्शनः
प्रिय [adj]
प्रियदर्शनः
दर्शन [n]
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥
Morphemic Decomposition & Padaccheda
शुश्रूषुर्
शुश्रूषु [adj]
अनहंवादी
अन् [ind]
अनहंवादी
अहंवादिन् [adj]
संयतात्मा
संयम् [1. Ā.]
संयतात्मा
आत्मन् [m]
जितेन्द्रियः
जि [9. P.]
जितेन्द्रियः
इन्द्रिय [n]
स्वर्गं
स्वर्ग [m]
गन्तुं
गम् [6. Ā.]
पराक्रान्तः
पराक्रम् [6. P.]
स्वेन
स्व [adj]
वीर्येण
वीर्य [n]
भारत
भारत [m]
केषांचिदभवद्भ्राता केषांचिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥
Morphemic Decomposition & Padaccheda
केषांचिद्
कश्चित् [pron]
अभवद्
भू [1. Ā.]
भ्राता
भ्रातृ [m]
केषांचिद्
कश्चित् [pron]
अभवत्
भू [1. Ā.]
सखा
सखि [m]
ऋषयस्त्वपरे
ऋषि [m]
ऋषयस्त्वपरे
तु [ind]
ऋषयस्त्वपरे
अपर [pron]
चैनं
च [ind]
चैनं
एनद् [pron]
पुत्रवत्
पुत्र [m]
पुत्रवत्
वत् [ind]
पर्यपालयन्
परिपालय् [10. Ā.]
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥
Morphemic Decomposition & Padaccheda
स
तद् [pron]
तु
तु [ind]
कालेन
काल [m]
महता
महत् [adj]
प्राप्य
प्राप् [1. P.]
निष्कल्मषं
निष्कल्मष [adj]
तपः
तपस् [n]
ब्रह्मर्षिसदृशः
ब्रह्मर्षि [m]
ब्रह्मर्षिसदृशः
सदृश [adj]
पाण्डुर्
पाण्डु [m]
बभूव
भू [1. Ā.]
भरतर्षभ
भरत [m]
भरतर्षभ
ऋषभ [m]
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः । उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥
Morphemic Decomposition & Padaccheda
स्वर्गपारं
स्वर्ग [m]
स्वर्गपारं
पार [mn]
तितीर्षन्
तितीर्ष् [Desid. Ā.]
स
तद् [pron]
शतशृङ्गाद्
शतशृङ्ग [m]
उदङ्मुखः
उदङ्मुख [adj]
प्रतस्थे
प्रस्था [1. Ā.]
सह
सह [ind]
पत्नीभ्याम्
पत्नी [f]
अब्रुवंस्तत्र
ब्रू [2. Ā.]
अब्रुवंस्तत्र
तत्र [ind]
तापसाः
तापस [m]
उपर्युपरि
उपरि [ind]
उपर्युपरि
उपरि [ind]
गच्छन्तः
गम् [6. Ā.]
शैलराजम्
शैलराज [m]
उदङ्मुखाः
उदङ्मुख [adj]
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥
Morphemic Decomposition & Padaccheda
दृष्टवन्तो
दृश् [6. P.]
गिरेर्
गिरि [m]
अस्य
इदम् [pron]
दुर्गान्
दुर्ग [adj]
देशान्
देश [m]
बहून्
बहु [adj]
वयम्
मद् [pron]
आक्रीडभूतान्
आक्रीड [mn]
आक्रीडभूतान्
भू [1. Ā.]
देवानां
देव [m]
गन्धर्वाप्सरसां
गन्धर्व [m]
गन्धर्वाप्सरसां
अप्सरस् [f]
तथा
तथा [ind]
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥
Morphemic Decomposition & Padaccheda
उद्यानानि
उद्यान [n]
कुबेरस्य
कुबेर [m]
समानि
सम [pron]
विषमाणि
विषम [adj]
च
च [ind]
महानदीनितम्बांश्च
महानदी [f]
महानदीनितम्बांश्च
नितम्ब [m]
महानदीनितम्बांश्च
च [ind]
दुर्गांश्च
दुर्ग [adj]
दुर्गांश्च
च [ind]
गिरिगह्वरान्
गिरि [m]
गिरिगह्वरान्
गह्वर [mn]
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥
Morphemic Decomposition & Padaccheda
सन्ति
अस् [2. P.]
नित्यहिमा
नित्य [adj]
नित्यहिमा
हिम [adj]
देशा
देश [m]
निर्वृक्षमृगपक्षिणः
निर्वृक्ष [adj]
निर्वृक्षमृगपक्षिणः
मृग [m]
निर्वृक्षमृगपक्षिणः
पक्षिन् [m]
सन्ति
अस् [2. P.]
केचिन्
कश्चित् [pron]
महावर्षा
महत् [adj]
महावर्षा
वर्ष [mn]
दुर्गाः
दुर्ग [adj]
केचिद्
कश्चित् [pron]
दुरासदाः
दुरासद [adj]
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥
Morphemic Decomposition & Padaccheda
अतिक्रामेन्
अतिक्रम् [6. P.]
न
न [ind]
पक्षी
पक्षिन् [m]
यान्
यद् [pron]
कुत
कुतस् [ind]
एवेतरे
एव [ind]
एवेतरे
इतर [pron]
मृगाः
मृग [m]
वायुर्
वायु [m]
एको
एक [pron]
ऽतिगाद्
अतिगा [3. P.]
यत्र
यत्र [ind]
सिद्धाश्च
सिद्ध [m]
सिद्धाश्च
च [ind]
परमर्षयः
परम [adj]
परमर्षयः
ऋषि [m]
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥
Morphemic Decomposition & Padaccheda
गच्छन्त्यौ
गम् [6. Ā.]
शैलराजे
शैलराज [m]
ऽस्मिन्
इदम् [pron]
राजपुत्र्यौ
राजन् [m]
राजपुत्र्यौ
पुत्री [f]
कथं
कथम् [ind]
त्विमे
तु [ind]
त्विमे
इदम् [pron]
न
न [ind]
सीदेताम्
सद् [6. P.]
अदुःखार्हे
अदुःख [adj]
अदुःखार्हे
अर्ह [adj]
मा
मा [ind]
गमो
गम् [6. Ā.]
भरतर्षभ
भरत [m]
भरतर्षभ
ऋषभ [m]
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥
Morphemic Decomposition & Padaccheda
अप्रजस्य
अप्रज [adj]
महाभाग
महाभाग [adj]
न
न [ind]
स्वर्गं
स्वर्ग [m]
गन्तुम्
गम् [6. Ā.]
अर्हसि
अर्ह् [1. Ā.]
स्वर्गे
स्वर्ग [m]
तेनाभितप्तो
तद् [pron]
तेनाभितप्तो
अभितप् [4. Ā.]
ऽहम्
मद् [pron]
अप्रजस्तद्
अप्रज [adj]
अप्रजस्तद्
तद् [pron]
ब्रवीमि
ब्रू [2. Ā.]
वः
त्वद् [pron]
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥
Morphemic Decomposition & Padaccheda
ऋणैश्चतुर्भिः
ऋण [n]
ऋणैश्चतुर्भिः
चतुर् [nr]
संयुक्ता
संयुज् [7. Ā.]
जायन्ते
जन् [4. P.]
मनुजा
मनुज [m]
भुवि
भू [f]
पितृदेवर्षिमनुजदेयैः
पितृ [m]
पितृदेवर्षिमनुजदेयैः
देव [m]
पितृदेवर्षिमनुजदेयैः
ऋषि [m]
पितृदेवर्षिमनुजदेयैः
मनुज [m]
पितृदेवर्षिमनुजदेयैः
दा [1. Ā.]
शतसहस्रशः
शत [mn]
शतसहस्रशः
सहस्रशस् [ind]
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥
Morphemic Decomposition & Padaccheda
एतानि
एतद् [pron]
तु
तु [ind]
यथाकालं
यथाकाल [m]
यो
यद् [pron]
न
न [ind]
बुध्यति
बुध् [1. Ā.]
मानवः
मानव [m]
न
न [ind]
तस्य
तद् [pron]
लोकाः
लोक [m]
सन्तीति
अस् [2. P.]
सन्तीति
इति [ind]
धर्मविद्भिः
धर्म [mn]
धर्मविद्भिः
विद् [adj]
प्रतिष्ठितम्
प्रतिष्ठा [1. Ā.]
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान् ॥
Morphemic Decomposition & Padaccheda
यज्ञैश्च
यज्ञ [m]
यज्ञैश्च
च [ind]
देवान्
देव [m]
प्रीणाति
प्री [9. Ā.]
स्वाध्यायतपसा
स्वाध्याय [m]
स्वाध्यायतपसा
तपस् [n]
मुनीन्
मुनि [m]
पुत्रैः
पुत्र [m]
श्राद्धैः
श्राद्ध [n]
पितॄंश्चापि
पितृ [m]
पितॄंश्चापि
च [ind]
पितॄंश्चापि
अपि [ind]
आनृशंस्येन
आनृशंस्य [n]
मानवान्
मानव [m]
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥
Morphemic Decomposition & Padaccheda
ऋषिदेवमनुष्याणां
ऋषि [m]
ऋषिदेवमनुष्याणां
देव [m]
ऋषिदेवमनुष्याणां
मनुष्य [m]
परिमुक्तो
परिमुच् [6. Ā.]
ऽस्मि
अस् [2. P.]
धर्मतः
धर्म [mn]
पित्र्याद्
पित्र्य [adj]
ऋणाद्
ऋण [n]
अनिर्मुक्त
अनिर्मुक्त [adj]
इदानीम्
इदानीम् [ind]
अस्मि
अस् [2. P.]
तापसाः
तापस [m]
देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥
Morphemic Decomposition & Padaccheda
देहनाशे
देह [mn]
देहनाशे
नाश [m]
ध्रुवो
ध्रुव [adj]
नाशः
नाश [m]
पितॄणाम्
पितृ [m]
एष
एतद् [pron]
निश्चयः
निश्चय [m]
इह
इह [ind]
तस्मात्
तद् [pron]
प्रजाहेतोः
प्रजा [f]
प्रजाहेतोः
हेतु [m]
प्रजायन्ते
प्रजन् [4. P.]
नरोत्तमाः
नर [m]
नरोत्तमाः
उत्तम [adj]
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा ॥
Morphemic Decomposition & Padaccheda
यथैवाहं
यथा [ind]
यथैवाहं
एव [ind]
यथैवाहं
मद् [pron]
पितुः
पितृ [m]
क्षेत्रे
क्षेत्र [mn]
सृष्टस्तेन
सृज् [2. P.]
सृष्टस्तेन
तद् [pron]
महात्मना
महात्मन् [adj]
तथैवास्मिन्
तथा [ind]
तथैवास्मिन्
एव [ind]
तथैवास्मिन्
इदम् [pron]
मम
मद् [pron]
क्षेत्रे
क्षेत्र [mn]
कथं
कथम् [ind]
वै
वै [ind]
सम्भवेत्
सम्भू [1. Ā.]
प्रजा
प्रजा [f]
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥
Morphemic Decomposition & Padaccheda
अस्ति
अस् [2. P.]
वै
वै [ind]
तव
त्वद् [pron]
धर्मात्मन्
धर्म [mn]
धर्मात्मन्
आत्मन् [m]
विद्म
विद् [6. Ā.]
देवोपमं
देव [m]
देवोपमं
उपम [adj]
शुभम्
शुभ [adj]
अपत्यम्
अपत्य [n]
अनघं
अनघ [adj]
राजन्
राजन् [m]
वयं
मद् [pron]
दिव्येन
दिव्य [adj]
चक्षुषा
चक्षुस् [n]
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥
Morphemic Decomposition & Padaccheda
दैवदिष्टं
दैव [n]
दैवदिष्टं
दिष्ट [n]
नरव्याघ्र
नर [m]
नरव्याघ्र
व्याघ्र [m]
कर्मणेहोपपादय
कर्मन् [n]
कर्मणेहोपपादय
इह [ind]
कर्मणेहोपपादय
उपपादय् [10. Ā.]
अक्लिष्टं
अक्लिष्ट [adj]
फलम्
फल [n]
अव्यग्रो
अव्यग्र [adj]
विन्दते
विद् [2. Ā.]
बुद्धिमान्
बुद्धिमत् [adj]
नरः
नर [m]
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥
Morphemic Decomposition & Padaccheda
तस्मिन्
तद् [pron]
दृष्टे
दृश् [6. P.]
फले
फल [n]
तात
तात [m]
प्रयत्नं
प्रयत्न [m]
कर्तुम्
कृ [2. Ā.]
अर्हसि
अर्ह् [1. Ā.]
अपत्यं
अपत्य [n]
गुणसम्पन्नं
गुण [mn]
गुणसम्पन्नं
सम्पद् [4. P.]
लब्ध्वा
लभ् [1. P.]
प्रीतिम्
प्रीति [f]
अवाप्स्यसि
अवाप् [5. Ā.]
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥
Morphemic Decomposition & Padaccheda
तच्छ्रुत्वा
तद् [pron]
तच्छ्रुत्वा
श्रु [4. P.]
वचनं
वचन [n]
तेषां
तद् [pron]
पाण्डुर्
पाण्डु [m]
वचनम्
वचन [n]
अब्रवीत्
ब्रू [2. Ā.]
आत्मनो
आत्मन् [m]
मृगशापेन
मृग [m]
मृगशापेन
शाप [m]
जानन्न्
ज्ञा [4. Ā.]
उपहतां
उपहन् [2. P.]
क्रियाम्
क्रिया [f]
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥
Morphemic Decomposition & Padaccheda
सो
तद् [pron]
ऽब्रवीद्
ब्रू [2. Ā.]
विजने
विजन [n]
कुन्तीं
कुन्ती [f]
धर्मपत्नीं
धर्मपत्नी [f]
यशस्विनीम्
यशस्विन् [adj]
अपत्योत्पादने
अपत्य [n]
अपत्योत्पादने
उत्पादन [n]
योगम्
योग [m]
आपदि
आपद् [f]
प्रसमर्थयन्
प्रसमर्थय् [Denom. Ā.]
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥
Morphemic Decomposition & Padaccheda
अपत्यं
अपत्य [n]
नाम
नाम [ind]
लोकेषु
लोक [m]
प्रतिष्ठा
प्रतिष्ठा [f]
धर्मसंहिता
धर्म [mn]
धर्मसंहिता
संधा [1. P.]
इति
इति [ind]
कुन्ति
कुन्ती [f]
विदुर्
विद् [6. Ā.]
धीराः
धीर [adj]
शाश्वतं
शाश्वत [adj]
धर्मम्
धर्म [mn]
आदितः
आदितस् [ind]
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥
Morphemic Decomposition & Padaccheda
इष्टं
इष्ट [n]
दत्तं
दत्त [n]
तपस्तप्तं
तपस् [n]
तपस्तप्तं
तप् [4. Ā.]
नियमश्च
नियम [m]
नियमश्च
च [ind]
स्वनुष्ठितः
सु [ind]
स्वनुष्ठितः
अनुष्ठा [1. Ā.]
सर्वम्
सर्व [pron]
एवानपत्यस्य
एव [ind]
एवानपत्यस्य
अनपत्य [adj]
न
न [ind]
पावनम्
पावन [n]
इहोच्यते
इह [ind]
इहोच्यते
वच् [2. P.]
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥
Morphemic Decomposition & Padaccheda
सो
तद् [pron]
ऽहम्
मद् [pron]
एवं
एवम् [ind]
विदित्वैतत्
विद् [6. Ā.]
विदित्वैतत्
एतद् [pron]
प्रपश्यामि
प्रदृश् [4. Ā.]
शुचिस्मिते
शुचि [adj]
शुचिस्मिते
स्मित [n]
अनपत्यः
अनपत्य [adj]
शुभांल्लोकान्
शुभ [adj]
शुभांल्लोकान्
लोक [m]
नावाप्स्यामीति
न [ind]
नावाप्स्यामीति
अवाप् [5. Ā.]
नावाप्स्यामीति
इति [ind]
चिन्तयन्
चिन्तय् [10. Ā.]
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥
Morphemic Decomposition & Padaccheda
मृगाभिशापान्
मृग [m]
मृगाभिशापान्
अभिशाप [m]
नष्टं
नश् [1. P.]
मे
मद् [pron]
प्रजनं
प्रजन [m]
ह्यकृतात्मनः
हि [ind]
ह्यकृतात्मनः
अकृतात्मन् [adj]
नृशंसकारिणो
नृशंस [adj]
नृशंसकारिणो
कारिन् [adj]
भीरु
भीरु [adj]
यथैवोपहतं
यथा [ind]
यथैवोपहतं
एव [ind]
यथैवोपहतं
उपहन् [2. P.]
तथा
तथा [ind]
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥
Morphemic Decomposition & Padaccheda
इमे
इदम् [pron]
वै
वै [ind]
बन्धुदायादाः
बन्धु [m]
बन्धुदायादाः
दायाद [m]
षट्
षष् [adj]
पुत्रा
पुत्र [m]
धर्मदर्शने
धर्म [mn]
धर्मदर्शने
दर्शन [n]
षड्
षष् [adj]
एवाबन्धुदायादाः
एव [ind]
एवाबन्धुदायादाः
अबन्धु [adj]
एवाबन्धुदायादाः
दायाद [m]
पुत्रास्ताञ्
पुत्र [m]
पुत्रास्ताञ्
तद् [pron]
शृणु
श्रु [4. P.]
मे
मद् [pron]
पृथे
पृथा [f]
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥
Morphemic Decomposition & Padaccheda
स्वयंजातः
स्वयंजात [adj]
प्रणीतश्च
प्रणी [1. Ā.]
प्रणीतश्च
च [ind]
परिक्रीतश्च
परिक्री [9. P.]
परिक्रीतश्च
च [ind]
यः
यद् [pron]
सुतः
सुत [m]
पौनर्भवश्च
पौनर्भव [m]
पौनर्भवश्च
च [ind]
कानीनः
कानीन [adj]
स्वैरिण्यां
स्वैरिन् [adj]
यश्च
यद् [pron]
यश्च
च [ind]
जायते
जन् [4. P.]
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥
Morphemic Decomposition & Padaccheda
दत्तः
दा [1. Ā.]
क्रीतः
क्री [1. P.]
कृत्रिमश्च
कृत्रिम [adj]
कृत्रिमश्च
च [ind]
उपगच्छेत्
उपगम् [6. P.]
स्वयं
स्वयम् [ind]
च
च [ind]
यः
यद् [pron]
सहोढो
सहोढ [m]
जातरेताश्च
जन् [4. P.]
जातरेताश्च
रेतस् [n]
जातरेताश्च
च [ind]
हीनयोनिधृतश्च
हा [1. P.]
हीनयोनिधृतश्च
योनि [mf]
हीनयोनिधृतश्च
धृ [4. P.]
हीनयोनिधृतश्च
च [ind]
यः
यद् [pron]
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥
Morphemic Decomposition & Padaccheda
पूर्वपूर्वतमाभावे
पूर्व [pron]
पूर्वपूर्वतमाभावे
पूर्वतम [adj]
पूर्वपूर्वतमाभावे
अभाव [m]
मत्वा
मन् [8. P.]
लिप्सेत
लिप्स् [Desid. P.]
वै
वै [ind]
सुतम्
सुत [m]
उत्तमाद्
उत्तम [adj]
अवराः
अवर [adj]
पुंसः
पुंस् [m]
काङ्क्षन्ते
काङ्क्ष् [2. Ā.]
पुत्रम्
पुत्र [m]
आपदि
आपद् [f]
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥
Morphemic Decomposition & Padaccheda
अपत्यं
अपत्य [n]
धर्मफलदं
धर्म [mn]
धर्मफलदं
फल [n]
धर्मफलदं
द [adj]
श्रेष्ठाद्
श्रेष्ठ [n]
इच्छन्ति
इष् [1. P.]
साधवः
साधु [adj]
आत्मशुक्राद्
आत्मन् [m]
आत्मशुक्राद्
शुक्र [n]
अपि
अपि [ind]
पृथे
पृथा [f]
मनुः
मनु [m]
स्वायम्भुवो
स्वायम्भुव [m]
ऽब्रवीत्
ब्रू [2. Ā.]
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥
Morphemic Decomposition & Padaccheda
तस्मात्
तद् [pron]
प्रहेष्याम्यद्य
प्रहि [5. P.]
प्रहेष्याम्यद्य
अद्य [ind]
त्वां
त्वद् [pron]
हीनः
हा [1. P.]
प्रजननात्
प्रजनन [n]
स्वयम्
स्वयम् [ind]
सदृशाच्छ्रेयसो
सदृश [adj]
सदृशाच्छ्रेयसो
श्रेयस् [adj]
वा
वा [ind]
त्वं
त्वद् [pron]
विद्ध्यपत्यं
विद् [6. Ā.]
विद्ध्यपत्यं
अपत्य [n]
यशस्विनि
यशस्विन् [adj]
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥
Morphemic Decomposition & Padaccheda
शृणु
श्रु [4. P.]
कुन्ति
कुन्ती [f]
कथां
कथा [f]
चेमां
च [ind]
चेमां
इदम् [pron]
शारदण्डायनीं
शारदण्डायनी [f]
प्रति
प्रति [ind]
या
यद् [pron]
वीरपत्नी
वीर [m]
वीरपत्नी
पत्नी [f]
गुरुभिर्
गुरु [m]
नियुक्तापत्यजन्मनि
नियुज् [7. Ā.]
नियुक्तापत्यजन्मनि
अपत्य [n]
नियुक्तापत्यजन्मनि
जन्मन् [n]
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥
Morphemic Decomposition & Padaccheda
पुष्पेण
पुष्प [n]
प्रयता
प्रयम् [1. Ā.]
स्नाता
स्ना [2. Ā.]
निशि
निश् [f]
कुन्ति
कुन्ती [f]
चतुष्पथे
चतुष्पथ [mn]
वरयित्वा
वरय् [10. Ā.]
द्विजं
द्विज [m]
सिद्धं
सिध् [4. Ā.]
हुत्वा
हु [3. Ā.]
पुंसवने
पुंसवन [n]
ऽनलम्
अनल [m]
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥
Morphemic Decomposition & Padaccheda
कर्मण्यवसिते
कर्मन् [n]
कर्मण्यवसिते
अवसा [6. P.]
तस्मिन्
तद् [pron]
सा
तद् [pron]
तेनैव
तद् [pron]
तेनैव
एव [ind]
सहावसत्
सह [ind]
सहावसत्
वस् [2. P.]
स
तद् [pron]
पुत्राञ्
पुत्र [m]
जनयामास
जनय् [10. Ā.]
गौतमादीन्
गौतम [m]
गौतमादीन्
आदि [m]
महायशाः
महत् [adj]
महायशाः
यशस् [n]
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥
Morphemic Decomposition & Padaccheda
तथा
तथा [ind]
त्वम्
त्वद् [pron]
अपि
अपि [ind]
कल्याणि
कल्याण [adj]
ब्राह्मणात्
ब्राह्मण [m]
तपसाधिकात्
तपस् [n]
तपसाधिकात्
अधिक [adj]
मन्नियोगाद्
मद् [pron]
मन्नियोगाद्
नियोग [m]
यत
यत् [1. P.]
क्षिप्रम्
क्षिप्रम् [ind]
अपत्योत्पादनं
अपत्य [n]
अपत्योत्पादनं
उत्पादन [n]
प्रति
प्रति [ind]