Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 100

Ādiparva Adhyāya 100

आदिपर्व • अध्यायः 100

Ādiparva Adhyāya 100 of the classical Mahābhārata with 31 verses.

Total: 31 Verses • Citations: MBh 1.100.1–31 • 250 Lexicon Terms
ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान् ॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥
संबभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः ॥
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः । महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः । किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥
ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् । विषण्णा पाण्डुसंकाशा समपद्यत भारत ॥
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥
नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥
तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥
ततः कुमारं सा देवी प्राप्तकालमजीजनत् । पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया । तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् । नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः । धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः । माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥
← Previous (Ch. 99) Full Table of Contents Next (Ch. 101) →