Ādiparva Adhyāya 218
आदिपर्व • अध्यायः 218
Ādiparva Adhyāya 218 of the classical Mahābhārata with 51 verses.
Total: 51 Verses
•
Citations: MBh 1.218.1–51
•
250 Lexicon Terms
•
Page 1 of 2 (Verses 30 shown)
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥
Morphemic Decomposition & Padaccheda
तस्याभिवर्षतो
तद् [pron]
तस्याभिवर्षतो
अभिवृष् [1. Ā.]
वारि
वारि [n]
पाण्डवः
पाण्डव [m]
प्रत्यवारयत्
प्रतिवारय् [10. P.]
शरवर्षेण
शर [m]
शरवर्षेण
वर्ष [mn]
बीभत्सुर्
बीभत्सु [adj]
उत्तमास्त्राणि
उत्तम [adj]
उत्तमास्त्राणि
अस्त्र [mn]
दर्शयन्
दर्शय् [10. Ā.]
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । छादयामास तद्वर्षमपकृष्य ततो वनात् ॥
Morphemic Decomposition & Padaccheda
शरैः
शर [m]
समन्ततः
समन्ततः [ind]
सर्वं
सर्व [pron]
खाण्डवं
खाण्डव [mn]
चापि
च [ind]
चापि
अपि [ind]
पाण्डवः
पाण्डव [m]
छादयामास
छादय् [10. Ā.]
तद्
तद् [pron]
वर्षम्
वर्ष [mn]
अपकृष्य
अपकृष् [1. Ā.]
ततो
ततस् [ind]
वनात्
वन [n]
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः । संछाद्यमाने खगमैरस्यता सव्यसाचिना ॥
Morphemic Decomposition & Padaccheda
न
न [ind]
च
च [ind]
स्म
स्म [ind]
किंचिच्
कश्चित् [pron]
छक्नोति
शक् [4. P.]
भूतं
भूत [mn]
निश्चरितुं
निश्चर् [1. Ā.]
ततः
ततस् [ind]
संछाद्यमाने
संछादय् [10. P.]
खगमैर्
खगम [m]
अस्यता
अस् [4. Ā.]
सव्यसाचिना
सव्यसाचिन् [m]
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः । दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥
Morphemic Decomposition & Padaccheda
तक्षकस्तु
तक्षक [m]
तक्षकस्तु
तु [ind]
न
न [ind]
तत्रासीत्
तत्र [ind]
तत्रासीत्
अस् [2. P.]
सर्पराजो
सर्प [m]
सर्पराजो
राज [m]
महाबलः
महत् [adj]
महाबलः
बल [mn]
दह्यमाने
दह् [2. P.]
वने
वन [n]
तस्मिन्
तद् [pron]
कुरुक्षेत्रे
कुरुक्षेत्र [n]
ऽभवत्
भू [1. Ā.]
तदा
तदा [ind]
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली । स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥
Morphemic Decomposition & Padaccheda
अश्वसेनस्तु
अश्वसेन [m]
अश्वसेनस्तु
तु [ind]
तत्रासीत्
तत्र [ind]
तत्रासीत्
अस् [2. P.]
तक्षकस्य
तक्षक [m]
सुतो
सुत [m]
बली
बलिन् [adj]
स
तद् [pron]
यत्नम्
यत्न [m]
अकरोत्
कृ [2. Ā.]
तीव्रं
तीव्र [adj]
मोक्षार्थं
मोक्ष [m]
मोक्षार्थं
अर्थ [mn]
हव्यवाहनात्
हव्यवाहन [m]
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥
Morphemic Decomposition & Padaccheda
न
न [ind]
शशाक
शक् [4. P.]
विनिर्गन्तुं
विनिर्गम् [1. P.]
कौन्तेयशरपीडितः
कौन्तेय [m]
कौन्तेयशरपीडितः
शर [m]
कौन्तेयशरपीडितः
पीडय् [10. Ā.]
मोक्षयामास
मोक्षय् [10. Ā.]
तं
तद् [pron]
माता
मातृ [f]
निगीर्य
निगृ [9. P.]
भुजगात्मजा
भुजग [m]
भुजगात्मजा
आत्मजा [f]
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥
Morphemic Decomposition & Padaccheda
तस्य
तद् [pron]
पूर्वं
पूर्वम् [ind]
शिरो
शिरस् [n]
ग्रस्तं
ग्रस् [1. Ā.]
पुच्छम्
पुच्छ [mn]
अस्य
इदम् [pron]
निगीर्यते
निगृ [9. P.]
ऊर्ध्वम्
ऊर्ध्वम् [ind]
आचक्रमे
आक्रम् [6. P.]
सा
तद् [pron]
तु
तु [ind]
पन्नगी
पन्नगी [f]
पुत्रगृद्धिनी
पुत्र [m]
पुत्रगृद्धिनी
गृद्धिन् [adj]
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥
Morphemic Decomposition & Padaccheda
तस्यास्तीक्ष्णेन
तद् [pron]
तस्यास्तीक्ष्णेन
तीक्ष्ण [adj]
भल्लेन
भल्ल [m]
पृथुधारेण
पृथु [adj]
पृथुधारेण
धारा [mf]
पाण्डवः
पाण्डव [m]
शिरश्चिछेद
शिरस् [n]
शिरश्चिछेद
छिद् [1. P.]
गच्छन्त्यास्ताम्
गम् [6. Ā.]
गच्छन्त्यास्ताम्
तद् [pron]
अपश्यत्
पश् [4. Ā.]
सुरेश्वरः
सुरेश्वर [m]
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥
Morphemic Decomposition & Padaccheda
तं
तद् [pron]
मुमोचयिषुर्
मुमोचयिषु [adj]
वज्री
वज्रिन् [m]
वातवर्षेण
वात [m]
वातवर्षेण
वर्ष [mn]
पाण्डवम्
पाण्डव [m]
मोहयामास
मोहय् [10. Ā.]
तत्कालम्
तद् [pron]
तत्कालम्
काल [m]
अश्वसेनस्त्वमुच्यत
अश्वसेन [m]
अश्वसेनस्त्वमुच्यत
तु [ind]
अश्वसेनस्त्वमुच्यत
मुच् [6. Ā.]
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥
Morphemic Decomposition & Padaccheda
तां
तद् [pron]
च
च [ind]
मायां
माया [f]
तदा
तदा [ind]
दृष्ट्वा
दृश् [6. P.]
घोरां
घोर [adj]
नागेन
नाग [m]
वञ्चितः
वञ्चय् [10. Ā.]
द्विधा
द्विधा [ind]
त्रिधा
त्रिधा [ind]
च
च [ind]
चिछेद
छिद् [1. P.]
खगतान्
ख [n]
खगतान्
गम् [6. Ā.]
एव
एव [ind]
भारत
भारत [m]
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् । पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥
Morphemic Decomposition & Padaccheda
शशाप
शप् [1. Ā.]
तं
तद् [pron]
च
च [ind]
संक्रुद्धो
संक्रुध् [4. Ā.]
बीभत्सुर्
बीभत्सु [adj]
जिह्मगामिनम्
जिह्म [adj]
जिह्मगामिनम्
गामिन् [adj]
पावको
पावक [m]
वासुदेवश्च
वासुदेव [m]
वासुदेवश्च
च [ind]
अप्रतिष्ठो
अप्रतिष्ठ [adj]
भवेद्
भू [1. Ā.]
इति
इति [ind]
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन् ॥
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
जिष्णुः
जिष्णु [m]
सहस्राक्षं
सहस्राक्ष [m]
खं
ख [n]
वितत्येषुभिः
वितन् [8. Ā.]
वितत्येषुभिः
इषु [mf]
शितैः
शा [4. P.]
योधयामास
योधय् [10. Ā.]
संक्रुद्धो
संक्रुध् [4. Ā.]
वञ्चनां
वञ्चन [fn]
ताम्
तद् [pron]
अनुस्मरन्
अनुस्मृ [1. Ā.]
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् । स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥
Morphemic Decomposition & Padaccheda
देवराड्
देवराज् [m]
अपि
अपि [ind]
तं
तद् [pron]
दृष्ट्वा
दृश् [6. P.]
संरब्धम्
संरब्ध [adj]
इव
इव [ind]
फल्गुनम्
फल्गुन [m]
स्वम्
स्व [adj]
अस्त्रम्
अस्त्र [mn]
असृजद्
सृज् [2. P.]
दीप्तं
दीप् [4. P.]
यत्
यद् [pron]
ततानाखिलं
तन् [8. Ā.]
ततानाखिलं
अखिल [adj]
नभः
नभस् [n]
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
वायुर्
वायु [m]
महाघोषः
महत् [adj]
महाघोषः
घोष [m]
क्षोभयन्
क्षोभय् [10. Ā.]
सर्वसागरान्
सर्व [pron]
सर्वसागरान्
सागर [m]
वियत्स्थो
वियन्त् [n]
वियत्स्थो
स्थ [adj]
ऽजनयन्
जनय् [10. Ā.]
मेघाञ्
मेघ [m]
जलधारामुच
जल [n]
जलधारामुच
धारा [f]
जलधारामुच
मुच् [adj]
आकुलान्
आकुल [adj]
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् । वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥
Morphemic Decomposition & Padaccheda
तद्विघातार्थम्
तद् [pron]
तद्विघातार्थम्
विघात [m]
तद्विघातार्थम्
अर्थ [mn]
असृजद्
सृज् [2. P.]
अर्जुनो
अर्जुन [m]
ऽप्यस्त्रम्
अपि [ind]
ऽप्यस्त्रम्
अस्त्र [mn]
उत्तमम्
उत्तम [adj]
वायव्यम्
वायव्य [adj]
प्रतिपत्तिविशारदः
प्रतिपत्ति [f]
प्रतिपत्तिविशारदः
विशारद [adj]
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥
Morphemic Decomposition & Padaccheda
तेनेन्द्राशनिमेघानां
तद् [pron]
तेनेन्द्राशनिमेघानां
इन्द्र [m]
तेनेन्द्राशनिमेघानां
अशनि [mf]
तेनेन्द्राशनिमेघानां
मेघ [m]
वीर्यौजस्तद्विनाशितम्
वीर्य [n]
वीर्यौजस्तद्विनाशितम्
ओजस् [n]
वीर्यौजस्तद्विनाशितम्
तद् [pron]
वीर्यौजस्तद्विनाशितम्
विनाशय् [10. Ā.]
जलधाराश्च
जल [n]
जलधाराश्च
धारा [f]
जलधाराश्च
च [ind]
ताः
तद् [pron]
शोषं
शोष [m]
जग्मुर्
गम् [6. Ā.]
नेशुश्च
नश् [1. P.]
नेशुश्च
च [ind]
विद्युतः
विद्युत् [fn]
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः । सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥
Morphemic Decomposition & Padaccheda
क्षणेन
क्षण [m]
चाभवद्
च [ind]
चाभवद्
भू [1. Ā.]
व्योम
व्योमन् [mn]
संप्रशान्तरजस्तमः
संप्रशम् [4. Ā.]
संप्रशान्तरजस्तमः
रजस् [n]
संप्रशान्तरजस्तमः
तमस् [n]
सुखशीतानिलगुणं
सुख [adj]
सुखशीतानिलगुणं
शीत [adj]
सुखशीतानिलगुणं
अनिल [m]
सुखशीतानिलगुणं
गुण [mn]
प्रकृतिस्थार्कमण्डलम्
प्रकृतिस्थ [adj]
प्रकृतिस्थार्कमण्डलम्
अर्क [m]
प्रकृतिस्थार्कमण्डलम्
मण्डल [mfn]
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः । प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥
Morphemic Decomposition & Padaccheda
निष्प्रतीकारहृष्टश्च
निष्प्रतीकार [adj]
निष्प्रतीकारहृष्टश्च
हृष् [1. P.]
निष्प्रतीकारहृष्टश्च
च [ind]
हुतभुग्
हुतभुज् [m]
विविधाकृतिः
विविध [adj]
विविधाकृतिः
आकृति [f]
प्रजज्वालातुलार्चिष्मान्
प्रज्वल् [1. P.]
प्रजज्वालातुलार्चिष्मान्
अतुल [adj]
प्रजज्वालातुलार्चिष्मान्
अर्चिष्मत् [adj]
स्वनादैः
स्व [adj]
स्वनादैः
नाद [m]
पूरयञ्
पूरय् [10. Ā.]
जगत्
जगन्त् [n]
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः । समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥
Morphemic Decomposition & Padaccheda
कृष्णाभ्यां
कृष्ण [m]
रक्षितं
रक्ष् [4. P.]
दृष्ट्वा
दृश् [6. P.]
तं
तद् [pron]
च
च [ind]
दावम्
दाव [m]
अहंकृताः
अहंकृत [adj]
समुत्पेतुर्
समुत्पत् [1. Ā.]
अथाकाशं
अथ [ind]
अथाकाशं
आकाश [mn]
सुपर्णाद्याः
सुपर्ण [m]
सुपर्णाद्याः
आद्य [adj]
पतत्रिणः
पतत्रिन् [m]
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ ॥
Morphemic Decomposition & Padaccheda
गरुडा
गरुड [m]
वज्रसदृशैः
वज्र [mn]
वज्रसदृशैः
सदृश [adj]
पक्षतुण्डनखैस्तथा
पक्ष [m]
पक्षतुण्डनखैस्तथा
तुण्ड [n]
पक्षतुण्डनखैस्तथा
नख [mn]
पक्षतुण्डनखैस्तथा
तथा [ind]
प्रहर्तुकामाः
प्रहर्तु [m]
प्रहर्तुकामाः
काम [m]
संपेतुर्
सम्पत् [1. Ā.]
आकाशात्
आकाश [mn]
कृष्णपाण्डवौ
कृष्ण [m]
कृष्णपाण्डवौ
पाण्डव [m]
तथैवोरगसंघाताः पाण्डवस्य समीपतः । उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥
Morphemic Decomposition & Padaccheda
तथैवोरगसंघाताः
तथा [ind]
तथैवोरगसंघाताः
एव [ind]
तथैवोरगसंघाताः
उरग [mn]
तथैवोरगसंघाताः
संघात [mn]
पाण्डवस्य
पाण्डव [m]
समीपतः
समीपतस् [ind]
उत्सृजन्तो
उत्सृज् [6. Ā.]
विषं
विष [n]
घोरं
घोर [adj]
निश्चेरुर्
निश्चर् [1. Ā.]
ज्वलिताननाः
ज्वल् [1. Ā.]
ज्वलिताननाः
आनन [n]
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् । विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥
Morphemic Decomposition & Padaccheda
तांश्चकर्त
तद् [pron]
तांश्चकर्त
कृत् [2. P.]
शरैः
शर [m]
पार्थः
पार्थ [m]
सरोषान्
स [ind]
सरोषान्
रोष [m]
दृश्य
दृश् [6. P.]
खेचरान्
खेचर [m]
विवशाश्चापतन्
विवश [adj]
विवशाश्चापतन्
च [ind]
विवशाश्चापतन्
पत् [1. Ā.]
दीप्तं
दीप् [4. P.]
देहाभावाय
देह [mn]
देहाभावाय
अभाव [m]
पावकम्
पावक [m]
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥
Morphemic Decomposition & Padaccheda
ततः
ततस् [ind]
सुराः
सुर [m]
सगन्धर्वा
स [ind]
सगन्धर्वा
गन्धर्व [m]
यक्षराक्षसपन्नगाः
यक्ष [m]
यक्षराक्षसपन्नगाः
राक्षस [m]
यक्षराक्षसपन्नगाः
पन्नग [mn]
उत्पेतुर्
उत्पत् [1. Ā.]
नादम्
नाद [m]
अतुलम्
अतुल [adj]
उत्सृजन्तो
उत्सृज् [6. Ā.]
रणार्थिणः
रण [m]
रणार्थिणः
अर्थिन् [adj]
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥
Morphemic Decomposition & Padaccheda
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
अयःकणप [m]
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
चक्राश्मन् [m]
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
भुशुण्डि [mf]
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
उद्यम् [6. P.]
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
बाहु [mf]
कृष्णपार्थौ
कृष्ण [m]
कृष्णपार्थौ
पार्थ [m]
जिघांसन्तः
जिघांस् [Denom. Ā.]
क्रोधसंमूर्छितौजसः
क्रोध [m]
क्रोधसंमूर्छितौजसः
सम्मूर्छ् [1. P.]
क्रोधसंमूर्छितौजसः
ओजस् [n]
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥
Morphemic Decomposition & Padaccheda
तेषाम्
तद् [pron]
अभिव्याहरतां
अभिव्याहृ [1. P.]
शस्त्रवर्षं
शस्त्र [n]
शस्त्रवर्षं
वर्ष [mn]
च
च [ind]
मुञ्चताम्
मुच् [6. Ā.]
प्रममाथोत्तमाङ्गानि
प्रमथ् [1. Ā.]
प्रममाथोत्तमाङ्गानि
उत्तमाङ्ग [n]
बीभत्सुर्
बीभत्सु [adj]
निशितैः
निशा [3. Ā.]
शरैः
शर [m]
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा । दैत्यदानवसंघानां चकार कदनं महत् ॥
Morphemic Decomposition & Padaccheda
कृष्णश्च
कृष्ण [m]
कृष्णश्च
च [ind]
सुमहातेजाश्
सु [ind]
सुमहातेजाश्
महत् [adj]
सुमहातेजाश्
तेजस् [n]
तदा
तदा [ind]
दैत्यदानवसंघानां
दैत्य [m]
दैत्यदानवसंघानां
दानव [m]
दैत्यदानवसंघानां
संघ [m]
चकार
कृ [2. Ā.]
कदनं
कदन [n]
महत्
महत् [adj]
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा । वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥
Morphemic Decomposition & Padaccheda
अथापरे
अथ [ind]
अथापरे
अपर [pron]
शरैर्
शर [m]
विद्धाश्चक्रवेगेरितास्तदा
व्यध् [4. Ā.]
विद्धाश्चक्रवेगेरितास्तदा
चक्र [n]
विद्धाश्चक्रवेगेरितास्तदा
वेग [m]
विद्धाश्चक्रवेगेरितास्तदा
ईरय् [10. Ā.]
विद्धाश्चक्रवेगेरितास्तदा
तदा [ind]
वेलाम्
वेला [f]
इव
इव [ind]
समासाद्य
समासादय् [10. P.]
व्यातिष्ठन्त
व्यास्था [1. Ā.]
महौजसः
महत् [adj]
महौजसः
ओजस् [n]
ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः । पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥
Morphemic Decomposition & Padaccheda
ततः
ततस् [ind]
शक्रो
शक्र [m]
ऽभिसंक्रुद्धस्त्रिदशानां
अभिसंक्रुध् [4. P.]
ऽभिसंक्रुद्धस्त्रिदशानां
त्रिदश [m]
महेश्वरः
महत् [adj]
महेश्वरः
ईश्वर [m]
पाण्डुरं
पाण्डुर [adj]
गजम्
गज [m]
आस्थाय
आस्था [1. Ā.]
तावुभौ
तद् [pron]
तावुभौ
उभ् [pron]
समभिद्रवत्
समभिद्रु [1. P.]
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् । हतावेताविति प्राह सुरानसुरसूदनः ॥
Morphemic Decomposition & Padaccheda
अशनिं
अशनि [mf]
गृह्य
ग्रह् [6. Ā.]
तरसा
तरस् [n]
वज्रम्
वज्र [mn]
अस्त्रम्
अस्त्र [mn]
अवासृजत्
अवसृज् [6. Ā.]
हतावेताविति
हन् [6. P.]
हतावेताविति
एतद् [pron]
हतावेताविति
इति [ind]
प्राह
प्राह् [1. P.]
सुरान्
सुर [m]
असुरसूदनः
असुरसूदन [m]