Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 213

Ādiparva Adhyāya 213

आदिपर्व • अध्यायः 213

Ādiparva Adhyāya 213 of the classical Mahābhārata with 83 verses.

Total: 83 Verses • Citations: MBh 1.213.1–83 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः । ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा । स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते । विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः । अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥
उचितश्चैव संबन्धः सुभद्रा च यशस्विनी । एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥
भरतस्यान्वये जातं शंतनोश्च महात्मनः । कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् । अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः । योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥
तमनुद्रुत्य सान्त्वेन परमेण धनंजयम् । निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् । प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप । निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः । पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः । पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥
अभिगम्य स राजानं विनयेन समाहितः । अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् । तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा । सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥
तथा बहुविधं कृष्णां विलपन्तीं धनंजयः । सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् । पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥
साधिकं तेन रूपेण शोभमाना यशस्विनी । भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना । ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना । ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् । सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः । तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥
ततस्ते हृष्टमनसः पाण्डवेया महारथाः । कुन्ती च परमप्रीता बभूव जनमेजय ॥
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् । अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥
आजगाम विशुद्धात्मा सह रामेण केशवः । वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः । सैन्येन महता शौरिरभिगुप्तः परंतपः ॥
तत्र दानपतिर्धीमानाजगाम महायशाः । अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः । साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः । प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च । सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा । आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥
← Previous (Ch. 212) Full Table of Contents Next (Ch. 214) →