Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 214

Ādiparva Adhyāya 214

आदिपर्व • अध्यायः 214

Ādiparva Adhyāya 214 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 1.214.1–33 • 250 Lexicon Terms
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् । शासनाद्धृतराष्ट्रस्य राज्ञः शांतनवस्य च ॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् । पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभः । त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥
तेषां समविभक्तानां क्षितौ देहवतामिव । बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः । रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः । बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ । प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले । प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥
न तु केवलदैवेन प्रजा भावेन रेमिरे । यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् । भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥
स हि सर्वस्य लोकस्य हितमात्मन एव च । चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् । उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन । सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले । सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत । जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥
विहारदेशं संप्राप्य नानाद्रुमवदुत्तमम् । गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः । माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः । यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः । यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥
द्रौपदी च सुभद्रा च वासांस्याभरणानि च । प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः । जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः । शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ । समीपे जग्मतुः कंचिदुद्देशं सुमनोहरम् ॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ । महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च । बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव । अभ्यगच्छत्तदा विप्रो वासुदेवधनंजयौ ॥
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः । हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥
तरुणादित्यसंकाशः कृष्णवासा जटाधरः । पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् । अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥
← Previous (Ch. 213) Full Table of Contents Next (Ch. 215) →