Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 190

Ādiparva Adhyāya 190

आदिपर्व • अध्यायः 190

Ādiparva Adhyāya 190 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.190.1–19 • 250 Lexicon Terms
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् । न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किंचित् । कृतं निमित्तं हि वरैकहेतो;स्तदेवेदमुपपन्नं बहूनाम् ॥
यथैव कृष्णोक्तवती पुरस्ता;न्नैकान्पतीन्मे भगवान्ददातु । स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ॥
यदि वायं विहितः शंकरेण; धर्मोऽधर्मो वा नात्र ममापराधः । गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ॥
ततोऽब्रवीद्भगवान्धर्मराज;मद्य पुण्याहमुत पाण्डवेय । अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् । समानयामास सुतां च कृष्णा;माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च । द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ॥
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् । महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ॥
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः । महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ॥
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो । क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ॥
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् । युधिष्ठिरं चाप्युपनीय मन्त्रवि;न्नियोजयामास सहैव कृष्णया ॥
प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः । ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ॥
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् । अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ॥
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् । महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ॥
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् । शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ॥
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् । तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ॥
पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् । तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ॥
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् । विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ॥
← Previous (Ch. 189) Full Table of Contents Next (Ch. 191) →