Ādiparva Adhyāya 191
आदिपर्व • अध्यायः 191
Ādiparva Adhyāya 191 of the classical Mahābhārata with 20 verses.
Total: 20 Verses
•
Citations: MBh 1.191.1–20
•
250 Lexicon Terms
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु । न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन ॥
Morphemic Decomposition & Padaccheda
पाण्डवैः
पाण्डव [m]
सह
सह [ind]
संयोगं
संयोग [m]
गतस्य
गम् [6. Ā.]
द्रुपदस्य
द्रुपद [m]
तु
तु [ind]
न
न [ind]
बभूव
भू [1. Ā.]
भयं
भय [n]
किंचिद्
कश्चित् [pron]
देवेभ्यो
देव [m]
ऽपि
अपि [ind]
कथंचन
कथंचन [ind]
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः । नाम संकीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥
Morphemic Decomposition & Padaccheda
ममृदुस्तस्य
मृद् [9. Ā.]
ममृदुस्तस्य
तद् [pron]
नगरं
नगर [mn]
द्रुपदस्य
द्रुपद [m]
महात्मनः
महात्मन् [adj]
नाम
नामन् [n]
संकीर्तयन्त्यस्ताः
संकीर्तय् [10. P.]
संकीर्तयन्त्यस्ताः
तद् [pron]
पादौ
पाद [m]
जग्मुः
गम् [6. Ā.]
स्वमूर्धभिः
स्व [adj]
स्वमूर्धभिः
मूर्धन् [m]
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥
Morphemic Decomposition & Padaccheda
कृष्णा
कृष्णा [f]
च
च [ind]
क्षौमसंवीता
क्षौम [n]
क्षौमसंवीता
संव्ये [4. Ā.]
कृतकौतुकमङ्गला
कृ [2. Ā.]
कृतकौतुकमङ्गला
कौतुकमङ्गल [n]
कृताभिवादना
कृ [2. Ā.]
कृताभिवादना
अभिवादन [n]
श्वश्र्वास्तस्थौ
श्वश्रू [f]
श्वश्र्वास्तस्थौ
स्था [1. Ā.]
प्रह्वा
प्रह्व [adj]
कृताञ्जलिः
कृताञ्जलि [adj]
रूपलक्षणसंपन्नां शीलाचारसमन्विताम् । द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥
Morphemic Decomposition & Padaccheda
रूपलक्षणसम्पन्नां
रूप [n]
रूपलक्षणसम्पन्नां
लक्षण [n]
रूपलक्षणसम्पन्नां
सम्पद् [4. P.]
शीलाचारसमन्विताम्
शील [mn]
शीलाचारसमन्विताम्
आचार [m]
शीलाचारसमन्विताम्
समन्वित [adj]
द्रौपदीम्
द्रौपदी [f]
अवदत्
वद् [1. Ā.]
प्रेम्णा
प्रेमन् [mn]
पृथाशीर्वचनं
पृथा [f]
पृथाशीर्वचनं
आशीर्वचन [n]
स्नुषाम्
स्नुषा [f]
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ । रोहिणी च यथा सोमे दमयन्ती यथा नले ॥
Morphemic Decomposition & Padaccheda
यथेन्द्राणी
यथा [ind]
यथेन्द्राणी
इन्द्राणी [f]
हरिहये
हरिहय [m]
स्वाहा
स्वाहा [f]
चैव
च [ind]
चैव
एव [ind]
विभावसौ
विभावसु [m]
रोहिणी
रोहिणी [f]
च
च [ind]
यथा
यथा [ind]
सोमे
सोम [m]
दमयन्ती
दमयन्ती [f]
यथा
यथा [ind]
नले
नल [m]
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती । यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥
Morphemic Decomposition & Padaccheda
यथा
यथा [ind]
वैश्रवणे
वैश्रवण [m]
भद्रा
भद्रा [f]
वसिष्ठे
वसिष्ठ [m]
चाप्यरुन्धती
च [ind]
चाप्यरुन्धती
अपि [ind]
चाप्यरुन्धती
अरुन्धती [f]
यथा
यथा [ind]
नारायणे
नारायण [m]
लक्ष्मीस्तथा
लक्ष्मी [f]
लक्ष्मीस्तथा
तथा [ind]
त्वं
त्वद् [pron]
भव
भू [1. Ā.]
भर्तृषु
भर्तृ [m]
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता । सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता ॥
Morphemic Decomposition & Padaccheda
जीवसूर्
जीवसू [f]
वीरसूर्
वीरसू [f]
भद्रे
भद्र [adj]
बहुसौख्यसमन्विता
बहु [adj]
बहुसौख्यसमन्विता
सौख्य [n]
बहुसौख्यसमन्विता
समन्वित [adj]
सुभगा
सुभग [adj]
भोगसम्पन्ना
भोग [m]
भोगसम्पन्ना
सम्पद् [4. P.]
यज्ञपत्नी
यज्ञपत्नी [f]
स्वनुव्रता
स्वनुव्रत [adj]
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा । पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥
Morphemic Decomposition & Padaccheda
अतिथीन्
अतिथि [m]
आगतान्
आगम् [6. P.]
साधून्
साधु [adj]
बालान्
बाल [adj]
वृद्धान्
वृद्ध [adj]
गुरूंस्तथा
गुरु [m]
गुरूंस्तथा
तथा [ind]
पूजयन्त्या
पूजय् [10. Ā.]
यथान्यायं
यथान्यायम् [ind]
शश्वद्
शश्वत् [ind]
गच्छन्तु
गम् [6. Ā.]
ते
त्वद् [pron]
समाः
समा [f]
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च । अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥
Morphemic Decomposition & Padaccheda
कुरुजाङ्गलमुख्येषु
कुरुजाङ्गल [n]
कुरुजाङ्गलमुख्येषु
मुख्य [adj]
राष्ट्रेषु
राष्ट्र [mn]
नगरेषु
नगर [mn]
च
च [ind]
अनु
अनु [ind]
त्वम्
त्वद् [pron]
अभिषिच्यस्व
अभिषिच् [4. P.]
नृपतिं
नृपति [m]
धर्मवत्सलम्
धर्म [mn]
धर्मवत्सलम्
वत्सल [adj]
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः । कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥
Morphemic Decomposition & Padaccheda
पतिभिर्
पति [m]
निर्जिताम्
निर्जि [1. P.]
उर्वीं
उरु [adj]
विक्रमेण
विक्रम [m]
महाबलैः
महत् [adj]
महाबलैः
बल [mn]
कुरु
कृ [2. Ā.]
ब्राह्मणसात्
ब्राह्मणसात् [ind]
सर्वाम्
सर्व [pron]
अश्वमेधे
अश्वमेध [m]
महाक्रतौ
महत् [adj]
महाक्रतौ
क्रतु [m]
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते । तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥
Morphemic Decomposition & Padaccheda
पृथिव्यां
पृथिवी [f]
यानि
यद् [pron]
रत्नानि
रत्न [mn]
गुणवन्ति
गुणवत् [adj]
गुणान्विते
गुण [mn]
गुणान्विते
अन्वित [adj]
तान्याप्नुहि
तद् [pron]
तान्याप्नुहि
आप् [1. P.]
त्वं
त्वद् [pron]
कल्याणि
कल्याण [adj]
सुखिनी
सुखिन् [adj]
शरदां
शरद् [f]
शतम्
शत [mn]
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् । तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥
Morphemic Decomposition & Padaccheda
यथा
यथा [ind]
च
च [ind]
त्वाभिनन्दामि
त्वद् [pron]
त्वाभिनन्दामि
अभिनन्द् [1. Ā.]
वध्वद्य
वधू [f]
वध्वद्य
अद्य [ind]
क्षौमसंवृताम्
क्षौम [n]
क्षौमसंवृताम्
संवृ [9. P.]
तथा
तथा [ind]
भूयो
भूयस् [ind]
ऽभिनन्दिष्ये
अभिनन्द् [1. Ā.]
सूतपुत्रां
सूत [m]
सूतपुत्रां
पुत्र [m]
गुणान्विताम्
गुण [mn]
गुणान्विताम्
अन्वित [adj]
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः । मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥
Morphemic Decomposition & Padaccheda
ततस्तु
ततस् [ind]
ततस्तु
तु [ind]
कृतदारेभ्यः
कृ [2. Ā.]
कृतदारेभ्यः
दार [mn]
पाण्डुभ्यः
पाण्डु [m]
प्राहिणोद्धरिः
प्रहि [5. P.]
प्राहिणोद्धरिः
हरि [m]
मुक्तावैडूर्यचित्राणि
मुक्ता [f]
मुक्तावैडूर्यचित्राणि
वैडूर्य [n]
मुक्तावैडूर्यचित्राणि
चित्र [adj]
हैमान्याभरणानि
हैम [adj]
हैमान्याभरणानि
आभरण [n]
च
च [ind]
वासांसि च महार्हाणि नानादेश्यानि माधवः । कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥
Morphemic Decomposition & Padaccheda
वासांसि
वासस् [n]
च
च [ind]
महार्हाणि
महार्ह [adj]
स्त्रीणाम्
स्त्री [f]
आभरणानि
आभरण [n]
च
च [ind]
कम्बलाजिनरत्नानि
कम्बल [mn]
कम्बलाजिनरत्नानि
अजिन [n]
कम्बलाजिनरत्नानि
रत्न [mn]
स्पर्शवन्ति
स्पर्शवत् [adj]
शुभानि
शुभ [adj]
च
च [ind]
शयनासनयानानि विविधानि महान्ति च । वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥
Morphemic Decomposition & Padaccheda
शयनासनयानानि
शयन [n]
शयनासनयानानि
आसन [n]
शयनासनयानानि
यान [n]
विविधानि
विविध [adj]
महान्ति
महत् [adj]
च
च [ind]
मुक्तावैडूर्यचित्राणि
मुक्ता [f]
मुक्तावैडूर्यचित्राणि
वैडूर्य [n]
मुक्तावैडूर्यचित्राणि
चित्र [adj]
हैमान्याभरणानि
हैम [adj]
हैमान्याभरणानि
आभरण [n]
च
च [ind]
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः । प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः ॥
Morphemic Decomposition & Padaccheda
रूपयौवनदाक्षिण्यैर्
रूप [n]
रूपयौवनदाक्षिण्यैर्
यौवन [n]
रूपयौवनदाक्षिण्यैर्
दाक्षिण्य [n]
उपेताश्च
उपे [2. Ā.]
उपेताश्च
च [ind]
स्वलंकृताः
सु [ind]
स्वलंकृताः
अलंकृ [8. Ā.]
प्रेष्याः
प्रेष्या [f]
सम्प्रददौ
सम्प्रदा [3. P.]
कृष्णो
कृष्ण [m]
नानादेश्याः
नानादेश्य [adj]
सहस्रशः
सहस्रशस् [ind]
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलंकृतान् । रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलंकृतान् ॥
Morphemic Decomposition & Padaccheda
गजान्
गज [m]
विनीतान्
विनी [1. Ā.]
भद्रांश्च
भद्र [adj]
भद्रांश्च
च [ind]
सदश्वांश्च
सत् [adj]
सदश्वांश्च
अश्व [m]
सदश्वांश्च
च [ind]
स्वलंकृतान्
सु [ind]
स्वलंकृतान्
अलंकृ [8. Ā.]
रथांश्च
रथ [m]
रथांश्च
च [ind]
दान्तान्
दम् [4. P.]
सौवर्णैः
सौवर्ण [adj]
शुभैः
शुभ [adj]
पट्टैर्
पट्ट [m]
अलंकृतान्
अलंकृ [8. Ā.]
कोटिशश्च सुवर्णं स तेषामकृतकं तथा । वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥
Morphemic Decomposition & Padaccheda
कोटिशश्च
कोटिशस् [ind]
कोटिशश्च
च [ind]
सुवर्णं
सुवर्ण [n]
स
तद् [pron]
तेषाम्
तद् [pron]
अकृतकं
अकृतक [adj]
तथा
तथा [ind]
अमेयात्मा
अमेय [adj]
अमेयात्मा
आत्मन् [m]
प्राहिणोन्
प्रहि [5. P.]
मधुसूदनः
मधुसूदन [m]
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः । मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥
Morphemic Decomposition & Padaccheda
वीरस्यैकस्य
वीर [m]
वीरस्यैकस्य
एक [pron]
विक्रान्तैर्
विक्रान्त [n]
धर्मपुत्रो
धर्मपुत्र [m]
युधिष्ठिरः
युधिष्ठिर [m]
मुदा
मुद् [f]
परमया
परम [adj]
युक्तो
युज् [6. Ā.]
गोविन्दप्रियकाम्यया
गोविन्द [m]
गोविन्दप्रियकाम्यया
प्रिय [adj]
गोविन्दप्रियकाम्यया
काम्या [f]