Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 167

Ādiparva Adhyāya 167

आदिपर्व • अध्यायः 167

Ādiparva Adhyāya 167 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.167.1–22 • 250 Lexicon Terms
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः । निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा । वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥
अथ चिन्तां समापेदे पुनः पौरवनन्दन । अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः । तस्या जले महानद्या निममज्ज सुदुःखितः ॥
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन । समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत । सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा । चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा । शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् । अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् । पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलंकृतम् ॥
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् । अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत । शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः । पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते । समा द्वादश तस्येह वेदानभ्यसतो मुने ॥
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः । अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ । कल्माषपादमासीनं ददर्श विजने वने ॥
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत । आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः । भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः । प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन । त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् । रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ॥
← Previous (Ch. 166) Full Table of Contents Next (Ch. 168) →