Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 162

Ādiparva Adhyāya 162

आदिपर्व • अध्यायः 162

Ādiparva Adhyāya 162 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.162.1–19 • 250 Lexicon Terms
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता । स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥
अमात्यः सानुयात्रस्तु तं ददर्श महावने । क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ । बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना ॥
त्वरया चोपसंगम्य स्नेहादागतसंभ्रमः । तं समुत्थापयामास नृपतिं काममोहितम् ॥
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् । प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः । उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् । मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥
क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् । पतितं पातनं संख्ये शात्रवाणां महीतले ॥
वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् । अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः । सर्वं विसर्जयामास तमेकं सचिवं विना ॥
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् । स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः । आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् । पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥
नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे । अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥
स विदित्वैव नृपतिं तपत्या हृतमानसम् । दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥
तथा तु नियतात्मानं स तं नृपतिसत्तमम् । आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः । ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः । वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् । महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥
← Previous (Ch. 161) Full Table of Contents Next (Ch. 163) →