Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 147

Ādiparva Adhyāya 147

आदिपर्व • अध्यायः 147

Ādiparva Adhyāya 147 of the classical Mahābhārata with 25 verses.

Total: 25 Verses • Citations: MBh 1.147.1–25 • 250 Lexicon Terms
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् । भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् । ममापि श्रूयतां किंचिच्छ्रुत्वा च क्रियतां क्षमम् ॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥
भ्राता च मम बालोऽयं गते लोकममुं त्वयि । अचिरेणैव कालेन विनश्येत न संशयः ॥
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे । पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः । संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल । स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥
अनाथा कृपणा बाला यत्रक्वचनगामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥
अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् । फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥
अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज ॥
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् । त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि । याचमानाः परादन्नं परिधावेमहि श्ववत् ॥
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । अमृते वसती लोके भविष्यामि सुखान्विता ॥
एवं बहुविधं तस्या निशम्य परिदेवितम् । पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः । उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् । प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥
तथापि तेषां दुःखेन परीतानां निशम्य तत् । बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥
← Previous (Ch. 146) Full Table of Contents Next (Ch. 148) →