Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 143

Ādiparva Adhyāya 143

आदिपर्व • अध्यायः 143

Ādiparva Adhyāya 143 of the classical Mahābhārata with 39 verses.

Total: 39 Verses • Citations: MBh 1.143.1–39 • 250 Lexicon Terms
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥
वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥
आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥
आपत्सु यो धारयति धर्मं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥
अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥
कृत्वा च परमं रूपं सर्वाभरणभूषिता । संजल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥
सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥
रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥
अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥
घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥
संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥
← Previous (Ch. 142) Full Table of Contents Next (Ch. 144) →