Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 135

Ādiparva Adhyāya 135

आदिपर्व • अध्यायः 135

Ādiparva Adhyāya 135 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.135.1–22 • 250 Lexicon Terms
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥
किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किंचिदभिज्ञानप्रयोजनम् ॥
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥
← Previous (Ch. 134) Full Table of Contents Next (Ch. 136) →