Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 136

Ādiparva Adhyāya 136

आदिपर्व • अध्यायः 136

Ādiparva Adhyāya 136 of the classical Mahābhārata with 20 verses.

Total: 20 Verses • Citations: MBh 1.136.1–20 • 250 Lexicon Terms
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने । सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥
एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परंतपाः ॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥
← Previous (Ch. 135) Full Table of Contents Next (Ch. 137) →