Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 134

Ādiparva Adhyāya 134

आदिपर्व • अध्यायः 134

Ādiparva Adhyāya 134 of the classical Mahābhārata with 29 verses.

Total: 29 Verses • Citations: MBh 1.134.1–29 • 250 Lexicon Terms
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसंकाशो वज्रपाणिरिवामरैः ॥
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलंकृतं जनाकीर्णं विविशुर्वारणावतम् ॥
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥
नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः । जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि । मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स संबोधितवान्पुरा ॥
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥
यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः । धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः ॥
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥
भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः संप्रधक्ष्यति ॥
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥
← Previous (Ch. 133) Full Table of Contents Next (Ch. 135) →