Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 110

Ādiparva Adhyāya 110

आदिपर्व • अध्यायः 110

Ādiparva Adhyāya 110 of the classical Mahābhārata with 46 verses.

Total: 46 Verses • Citations: MBh 1.110.1–46 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥
शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् । अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असंभवे वा भैक्षस्य चरन्ननशनान्यपि ॥
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥
एतया सततं वृत्त्या चरन्नेवंप्रकारया । देहं संधारयिष्यामि निर्भयं मार्गमास्थितः ॥
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः । प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् । त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥
← Previous (Ch. 109) Full Table of Contents Next (Ch. 111) →