Skip to main content
Search
KA
Kirātārjunīyam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Kirātārjunīyam.

Total: 47 Verses • Citations: KA 6.1–47 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KA 6.1 प्रमिताक्षरा
रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् । धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥
KA 6.2 प्रमिताक्षरा
तमनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः । पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥
KA 6.3 प्रमिताक्षरा
अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः । परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥
KA 6.4 प्रमिताक्षरा
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः । मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥
KA 6.5 प्रमिताक्षरा
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥
KA 6.6 प्रमिताक्षरा
प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् । सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ॥
KA 6.7 प्रमिताक्षरा
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः । अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥
KA 6.8 प्रमिताक्षरा
अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः । स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥
KA 6.9 प्रमिताक्षरा
सितवाजिने निजगदू रुचयश्चलवीचिरागरचनापटवः । मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥
KA 6.10 प्रमिताक्षरा
उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥
KA 6.11 प्रमिताक्षरा
बहु बर्हिचन्द्रिकनिभं विदधे धृतिमस्य दानपयसां पटलम् । अवगाढमीक्षितुमिवैभपतिं विकसद्विलोचनशतं सरितः ॥
KA 6.12 प्रमिताक्षरा
प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥
KA 6.13 प्रमिताक्षरा
शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः । स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥
KA 6.14 प्रमिताक्षरा
उपलभ्य चञ्चलतरङ्गहृतं मदगन्धमुत्थितवतां पयसः । प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान्करिणः ॥
KA 6.15 प्रमिताक्षरा
स जगाम विस्मयमुद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः । प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥
KA 6.16 प्रमिताक्षरा
स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः । ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयतीः सरितः ॥
KA 6.17 प्रमिताक्षरा
अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । मनसः प्रसत्तिमिव मूर्ध्नि गिरेः शुचिमाससाद स वनान्तभुवम् ॥
KA 6.18 प्रमिताक्षरा
अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः । धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः ॥
KA 6.19 प्रमिताक्षरा
प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् । श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥
KA 6.20 प्रमिताक्षरा
शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः । प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥
KA 6.21 प्रमिताक्षरा
अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः । प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥
KA 6.22 प्रमिताक्षरा
मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः । सहजेतरे जयशमौ दधती बिभरांबभूव युगपन्महसी ॥
KA 6.23 प्रमिताक्षरा
शिरसा हरिन्मणिनिभः स वहन्कृतजन्मनोऽभिषवणेन जटाः । उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥
KA 6.24 प्रमिताक्षरा
धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः । रजयांचकार विरजाः स मृगान्कमिवेशते रमयितुं न गुणाः ॥
KA 6.25 प्रमिताक्षरा
अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् । अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥
KA 6.26 प्रमिताक्षरा
नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिम् । स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥
KA 6.27 प्रमिताक्षरा
पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः । स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥
KA 6.28 प्रमिताक्षरा
महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः । न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यमनुभावगुणः ॥
KA 6.29 प्रमिताक्षरा
तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवमनन्यभवम् । उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥
KA 6.30 प्रमिताक्षरा
विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ । अनपेतकालमभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →