Skip to main content
Search
KA
Kirātārjunīyam • Chapter 05

Canto 5

पञ्चमः सर्गः

Canto 5 of Kirātārjunīyam.

Total: 52 Verses • Citations: KA 5.1–52 • 1 Lexicon Terms • Page 2 of 2 (Verses 22 shown)
KA 5.31 मध्यक्षामा
नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥
KA 5.32 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥
KA 5.33 वसन्ततिलका
अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः । विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥
KA 5.34 प्रहर्षिणी
क्रामद्भिर्घनपदवीमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् ॥
KA 5.35 वंशस्थम्
व्यधत्त यस्मिन्पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥
KA 5.36 शालिनी
नानारत्नज्योतिषां संनिपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति ॥
KA 5.37 वसन्ततिलका
रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि । अस्मिन्विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥
KA 5.38 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥
KA 5.39 प्रहर्षिणी
उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ॥
KA 5.40 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥
KA 5.41 वसन्ततिलका
संमूर्छतां रजतभित्तिमयूखजालैरालोकपादपलतान्तरनिर्गतानाम् । घर्मद्युतेरिह मुहुः पटलानि धाम्नामादर्शमण्डलनिभानि समुल्लसन्ति ॥
KA 5.42 वसन्ततिलका
शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः । शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ॥
KA 5.43 वंशपत्रपतितम्
सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥
KA 5.44 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः । सततमसितयामिनीषु शम्भो अमलयतीह वनान्तमिन्दुलेखा ॥
KA 5.45 द्रुतविलम्बितम्
क्षिपति योऽनुवनं विततां बृहद्बृहतिकामिव रौचनिकीं रुचम् । अयमनेकहिरण्मयकंदरस्तव पितुर्दयितो जगतीधरः ॥
KA 5.46 वसन्ततिलका
सक्तिं लवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥
KA 5.47 द्रुतविलम्बितम्
कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥
KA 5.48 द्रुतविलम्बितम्
जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः । भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥
KA 5.49 वसन्ततिलका
भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥
KA 5.50 प्रहर्षिणी
मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियायुः ॥
KA 5.51 प्रहर्षिणी
इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ संधत्ते भृशमरतिं हि सद्वियोगः ॥
KA 5.52 मालिनी
तमनतिशयनीयं सर्वतः सारयोगादविरहितमनेकेनाङ्कभाजा फलेन । अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →