Skip to main content
Search
KA
Kirātārjunīyam • Chapter 18

Canto 18

अष्टादशः सर्गः

Canto 18 of Kirātārjunīyam.

Total: 48 Verses • Citations: KA 18.1–48 • 1 Lexicon Terms • Page 2 of 2 (Verses 18 shown)
KA 18.31 वंशस्थम्
न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः । नमस्क्रिया चोषसि दातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥
KA 18.32 वंशस्थम्
तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः । स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥
KA 18.33 वंशस्थम्
अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥
KA 18.34 आर्यागीति (१२, २०, १२, २०)
आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वमुपेतः । तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपेमयः ॥
KA 18.35 उपजातिः
त्वमन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वम् । त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥
KA 18.36 प्रहर्षिणी
रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम् । पाविन्याः शरणगतार्तिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः ॥
KA 18.37 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्ते ॥
KA 18.38 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसंततिं शिखिनेऽनेकशिखाय ते नमः ॥
KA 18.39 प्रहर्षिणी
आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥
KA 18.40 शालिनी
यः सर्वेषामावरीता वरीयान्सर्वैर्भावैर्नावृतोऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्योमरूपाय तस्मै ॥
KA 18.41 वंशस्थम्
अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥
KA 18.42 वंशस्थम्
असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि । विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनापि ॥
KA 18.43 वसन्ततिलका
आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥
KA 18.44 मालिनी
इति निगदितवन्तं सूनुमुच्चैर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥
KA 18.45 शिखरिणी
स पिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥
KA 18.46 मालिनी
अथ शशधरमौलेरभ्यनुज्ञामवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलमाशिर्वादमारोपयन्तो विजयि विविधमस्त्रं लोकपाला वितेरुः ॥
KA 18.47 शिखरिणी
असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः । स्वधाम्ना लोकानां तमुपरि कृतस्थानममरास्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥
KA 18.48 मालिनी
व्रज जय रिपुलोकं पादपद्मानतः सन्गदित इति शिवेन श्लाघितो देवसंघैः । निजगृहमथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥
← Previous (Ch. 17) Full Table of Contents