Skip to main content
Search
KA
Kirātārjunīyam • Chapter 10

Canto 10

दशमः सर्गः

Canto 10 of Kirātārjunīyam.

Total: 63 Verses • Citations: KA 10.1–63 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
KA 10.31 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥
KA 10.32 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥
KA 10.33 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥
KA 10.34 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥
KA 10.35 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा । अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥
KA 10.36 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कथमिव तव संमतिर्भवित्री समम् ऋतुभिर्मुनिनावधीरितस्य । इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥
KA 10.37 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानीं तम् ऋतुगणः क्षणमुन्मनीचकार ॥
KA 10.38 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः । अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥
KA 10.39 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु । अभिरतुमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥
KA 10.40 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥
KA 10.41 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥
KA 10.42 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिनयमनसः सुराङ्गनाया निहितमलक्तकवर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥
अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु । सवपुषामिव चित्तरागमूहुर्नमितशिखानि कदम्बकेसराणि ॥
KA 10.44 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः । स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥
KA 10.45 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥
KA 10.46 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥
KA 10.47 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥
KA 10.48 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥
KA 10.49 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥
KA 10.50 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥
KA 10.51 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥
KA 10.52 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः । सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥
KA 10.53 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कुसुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी । तदभिमुखमनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचित् ॥
KA 10.54 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥
KA 10.55 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥
KA 10.56 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥
KA 10.57 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्य सकलमिवासकलेन लोचनेन ॥
KA 10.58 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ॥
KA 10.59 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः । इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥
KA 10.60 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ॥
← Previous (Ch. 9) Full Table of Contents Next (Ch. 11) →