द्रु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुलाऽऽकुलाः ।अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम् ॥
"यदताप्सीच्छनैर्भानुर्यत्राऽवासीन्मितं मरुत् । यदाप्यानं हिमोस्रेण भनक्त्युपवनं कपिः।" ॥
ततोऽशीति-सहस्राणि किङ्कराणां समादिशत् ।इन्द्रजित्-सूर्विनाशाय मारुतेः क्रोध-मूर्च्छितः ॥
शक्त्यृष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः । व्यश्नुवाना दिशः प्रापुर्वनं दृष्टि-विषोपमाः ॥
दध्वान मेघ-वद्भीममादाय परिघं कपिः । नेदुर्दीप्तायुधास्तेऽपि तडित्वन्त इवाऽम्बुदाः ॥
कपिनाऽम्भोधि-धीरेण समगंसत राक्षसाः । वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः ॥
लाङ्गूलमुद्धतं धुन्वन्नुद्वहन्परिघं गुरुम् । तस्थौ तोरणमारुह्य पूर्वं न प्रजहार सः ॥
अक्षारिषुः शराम्भांसि तस्मिन्रक्षः-पयोधराः । न चाऽह्वालीन्न चाऽव्राजीत्त्रासं कपि-महीधरः ॥
अवादीत्तिष्ठतेत्युच्चैः प्रादेवीत्परिघं कपिः । तथा यथा रणे प्राणान्बहूनामग्रहीद्द्विषाम् ॥
व्रणैरवमिषू रक्तं देहैः प्राऋनाविषुर्भुवम् । दिशः प्रौर्णाविषुश्चाऽन्ये यातुधाना भवद्-भियः ॥
अरासिषुश्च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः । कपेरत्रासिषुर्नादान्मृगाः सिंह-ध्वनेरिव ॥
मायानामीश्वरास्तेऽपि शस्त्र-हस्ता रथैः कपिम् । प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः ॥
तांश्चेतव्यान्क्षितौ श्रित्वा वानरस्तोरणं युतान् । जघानाऽऽधूय परिघं विजिघृक्षून्समागतान् ॥
संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः । रावणाऽन्तिकमाजग्मुर्हत-शेषा निशा-चराः ॥
"एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत् । वैमुख्यं चकृमे" त्युच्चैरूचुर्दश-मुखाऽन्तिके ॥
मांसोपभोग-संशूनानुद्विग्नांस्तानवेत्य सः ।उद्वृत्ता-नयनो मित्रान्मन्त्रिणः स्वान्व्यसर्जयत् ॥
प्रमेदिताः स-पुत्रास्ते सु-स्वान्ता बाढ-विक्रमाः ।अ-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र-पाणयः ॥
तान्दृष्ट्वाऽतिदृढान्धृष्टान्प्राप्तान्परिवृढाऽऽज्ञया । कष्टं विनर्दतः क्रूरान्शस्त्र-घुष्ट-करान्कपिः ॥
अ-व्यर्णो गिरि-कूटाभानभ्यर्णानार्दिदद्द्रुतम् । वृत्त-शस्त्रान्महाऽरम्भ्यान्-दान्तांस्त्रिदशैरपि ॥
दमिताऽरिः प्रशान्तौजा नादाऽऽपूरित-दिङ्मुखः । जघान रुषितो रुष्टांस्त्वरितस्तूर्णमागतान् ॥
तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः ।अभूदभ्यमित-त्रासमास्वान्ताऽशेष-दिग्जगत् ॥
भय-संहृष्ट-रोमाणस्ततस्तेऽपचित-द्विषः । क्षणेन क्षीण-विक्रान्ताः कपिनाऽनेषत क्षयम् ॥
हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः ।अशोकवनिकामेव निगृहीताऽरि-शासनः ॥
आवरीतुमिवाऽऽकाशं वरितुं वीनिवोत्थितम् । वनं प्रभञ्जन-सुतो नाऽदयिष्ट विनाशयन् ॥
वरिषीष्ट शिवं क्षिप्यन्मैथिल्याः कल्प-शाखिनः । प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः ॥
संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर्द्रुतम् ।अवरिष्टाक्षम-क्षम्यं कपिं हन्तुं दषाननः ॥
ऊचे-"संवरिषीष्ठास्त्वं गच्छ शत्रोः पराक्रमम् । ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु-सम्मुखम् ॥
द्रुतं संस्वरिषीष्ठास्त्वं निर्-भयः प्रधनोत्तमे" । स मायानामगात्सोता कपेर्विधवितुं द्युतिम् ॥
विगाढाऽरं वनस्याऽसौ शत्रूणां गाहिता कपिः ।अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम् ॥
निष्कोषितव्यान्निष्कोष्टुं प्राणान्दशमुखाऽऽत्मजात् ।आदाय परिघं तस्थौ वनान्निष्कुषित-द्रुमः ॥