वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्याऽभिभवेन चैव ।आढ्यंभविष्णुर्यशसा कुमारः प्रियंभविष्णुर्न स यस्य नाऽऽसीत् ॥
ततः सुचेतीकृत-पौर-भृत्यो "राज्येऽभिषेक्ष्ये सुतमित्य-नीचैः ।आघोषयन्भूमि-पतिः समस्तं भूयोऽपि लोकं सुमनीचकार ॥
आदिक्षदादीप्त-कृशानु-कल्पं सिंहासनं तस्य स-पाद-पीठम् । सन्तप्त-चामीकर-वल्गु-वज्रं विभाग-विन्यस्त-महार्घ-रत्नम् ॥
प्रास्थापयत्पूग-कृतान्स्व-पोषं पृष्टान्प्रयत्नाद्दृढ-गात्र-बन्धान् । स-भर्म-कुम्भान्पुरुषान्समन्तात्पत्काषिणस्तीर्थ-जलाऽर्थमाशु ॥
उक्षान्प्रचक्रुर्नगरस्य मार्गान्ध्वजान्बबन्धुर्मुमुचुः ख-धूपान् । दिशश्च पुष्पैश्चकरुर्विचित्रै- रर्थेषु राज्ञा निपुणा नियुक्ताः ॥
मातामहाऽऽवासमुपेयिवांसं मोहाद-पृष्ट्वा भरतं तदानीम् । तत्केकयी सोढुम-शक्नुवाना ववार रामस्य वन-प्रयाणम् ॥
कर्णे-जपैराहित-राज्य-लोभा स्त्रैणेन नीता विकृतिं लघिम्ना । राम-प्रवासे व्यमृशन्न दोषं जनाऽपवादं स-नरेन्द्र-मृत्युम् ॥
वसूनि देशांश्च निवर्तयिष्यन्रामं नृपः संगिरमाण एव । तयाऽवजज्ञे भरताऽभिशेको विषाद-शङ्कुश्च मतौ निचख्ने ॥
ततः प्रविव्राजयिषुः कुमार- मादिक्षदस्याऽभिगमं वनाय । सौमित्रि-सीताऽनुचरस्य राजा सुमन्त्र-नेत्रेण रथेन शोचन् ॥
केचिन्निनिन्दुर्नृपम-प्रशान्तं विचुक्रुशुः केचन साऽस्रमुच्चैः ।ऊचुस्तथाऽन्ये भरतस्य मायां धिक्केकयीमित्यपरो जगाद ॥
"गतो वनं श्वो भवितेति रामः" शोकेन देहे जनताऽतिमात्रम् । धीरास्तु तत्र च्युत-मन्यवोऽन्ये दधुः कुमाराऽनुगमे मनांसि ॥
प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान् । "किं शोचतेहाऽभ्युदये बताऽस्मान्नियोग-लाभेन पितुः कृताऽर्थान् ॥
असृष्ट यो यश्च भयेष्वरक्षीद्यः सर्वदाऽस्मानपुषत्स्व-पोषम् । महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः ॥
विद्युत्-प्रणाशं स वरं प्रनष्टो यद्वोर्ध्व-शोषं तृण-वद्विशुष्कः ।अर्थे दुरापे किमुत प्रवासे न शासनेऽवास्थित यो गुरूणाम् ॥
पौरा ! निवर्तध्वमिति न्यगादीत् "तातस्य शोकाऽपनुदा भवेत । मा दर्शताऽन्यं भरतं च मत्तो" निवर्तयेत्याह रथं स्म सूतम् ॥
ज्ञात्वेङ्गितैर्गत्वरतां जनाना- मेकां शयित्वा रजनीं स-पौरः । रक्षन्वने-वास-कृताद्भयात्तान्प्रातश्छलेनाऽपजगाम रामः ॥
अस्राक्षुरस्रं करुणं रुवन्तो मुहुर्मुहुर्न्यश्वसिषुः कपोष्णम् । हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्-मुखैस्ते न्यवृतन्मनोभिः ॥
सूतोऽपि गङ्गा-सलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्प-मन्युः । स-सीतयो राघवयोरधीयन्श्वसन्कदुष्णं पुरमाविवेश ॥
प्रतीय सा पूर्ददृशे जनेन द्यौर्भानु-शीतांशु-विनाकृतेव । राजन्य-नक्षत्र-समन्विताऽपि शोकाऽन्धकार-क्षत-सर्व-चेष्टा ॥
विलोक्य रामेण विना सुमन्त्र- मच्योष्ट सत्वान्नृ-पतिश्च्युताऽऽशः । मधूनि नैषीद्व्यलिपन्न गन्धैर्मनो-रमे न व्यवसिष्ट वस्त्रे ॥
आसिष्ट नैकत्र शुचा व्यरंसीत्कृताऽकृतेभ्यः क्षिति-पाल-भाग्-भ्यः । स चन्दनोशीर-मृणाल-दिग्धः शोका-ग्निनाऽगाद्द्यु-निवास-भूयम् ॥
विचुक्रुशुर्भूमि-पतेर्महिष्यः केशांल्लुलुञ्चुः स्व-वपूंषि जघ्नुः । विभूषणान्युन्मुमुचुः क्षमाया पेतुर्बभञ्जुर्वलयानि चैव ॥
ताः सान्त्वयन्ती भरत-प्रतीक्षा तं बन्धु-ता न्यक्षिपदाशु तैले । दूतांश्च राजाऽऽत्मजमानिनीषून्प्रास्थापयन्मन्त्रि-मतेन यूनः ॥
"सुप्तो नभस्तः पतितं निरीक्षां- चक्रे विवस्वन्तमधः स्फुरन्तम्" ।आख्यद्वसन्मातृ-कुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः ॥
अशिश्रवन्नात्ययिकं तमेत्य दूता यदाऽर्थं प्रयियासयन्तः ।आंहिष्ट जाताऽञ्जिहिषस्तदाऽसा- वुत्कण्ठमानो भरतो गुरूणाम् ॥
बन्धूनशाङ्किष्ट समाकुलुत्वा- दासेदुषः स्नेह-वशादपायम् । गोमायु-सारङ्ग-गणाश्च सम्यङ्नाऽयासिषुर्भीममरासिषुश्च ॥
स प्रोषिवानेत्य पुरं प्रवेक्ष्यन्शुश्राव घोषं न जनौघ-जन्यम् ।आकर्णयामास न वेद-नादान्न चोपलेभे वणिजां पणाऽयान् ॥
चक्रन्दुरुच्चैर्नृ-पतिं समेत्य तं मातरोऽभ्यर्णमुपागताऽस्राः । पुरोहिताऽमात्य-मुखाश्च योधा विवृद्ध-मन्यु-प्रतिपूर्ण-मन्या ॥
दिदृक्षमाणः परितः स-सीतं रामं यदा नैक्षत लक्ष्मणं च । रोरुद्यमानः स तदाऽभ्यपृच्छद्यथावदाख्यन्नथ वृत्तमस्मै ॥
आबद्ध-भीम-भ्रुकुटी-विभङ्गः शेश्वीयमानाऽरुण-रौद्र-नेत्रः ।उच्चैरुपालब्ध स केकयीं च शोके मुहुश्चाविरतं न्यमाङ्क्षीत् ॥