अधिज्य-चापः स्थिर-बाहु-मुष्टि- रुदञ्चिताऽक्षोऽञ्चित-दक्षिणोरुः । तान्लक्ष्मणः सन्नत-वाम-जङ्घो जघान शुद्धेषुर-मन्द-कर्षी ॥
गाधेय-दिष्टं विरसं रसन्तं रामोऽपि मायाचणमस्त्रचुञ्चुः । स्थास्नुं रणे स्मेर-मुखो जगाद मारीचमुच्चैर्वचनं महाऽर्थम् ॥
आत्मंभरिस्त्वंपिशितैर्नराणां फलेग्रहीन्हंसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात् ॥
अद्मो द्विजान्देवयजीन्निहन्मः कुर्मः पुरं प्रेत-नराऽधिवासम् । धर्मो ह्ययं दाशरथे ! निजो नो नैवाऽध्यकारिष्महि वेद-वृत्ते ॥
धर्मोऽस्ति सत्यं तव राक्षसाऽय- मन्यो व्यतिस्ते तु ममाऽपि धर्मः । ब्रह्म-द्विषस्ते प्रणिहन्मि येन राजन्य-वृत्तिर्धृत-कार्मुकेषुः ॥
इत्थं-प्रवादं युधि संप्रहारं प्रचक्रतू राम-निशा-विहारौ । तृणाय मत्वा रघु-नन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत् ॥
जग्मुः प्रसादं द्विज-मानसानि द्यौर्वर्षुका पुष्प-चयं बभूव । निर्-व्याजमिज्या ववृते। वचश्च भूयो बभाषे मुनिना कुमारः ॥
महीय्यमाना भवताऽतिमात्रं सुराऽध्वरे घस्मर-जित्वरेण । दिवोऽपि वज्राऽऽयुध-भूषणाया ह्रिणीयते वीर-वती न भूमिः ॥
बलिर्बबन्धे जलधिर्ममन्थे जह्रेऽमृतं दैत्य-कुलं विजिग्यो । कल्पाऽन्त-दुःस्था वसुधा तथोहे येनैष भारोऽति-गुरुर्न तस्य ॥
इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन्मैथिल-यज्ञ-भूमिम् । रामं मुनिः प्रीत-मना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन् ॥
एतौ स्म मित्रा-वरुणौ किमेतौ किमश्विनौ सोम-रसं पिपासू । जनं समस्तं जनकाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ ॥
अजिग्रहत्तं जनको धनुस्तद् "येनाऽर्दिदद्दैत्य-पुरं पिनाकी" । जिज्ञासमानो बलमस्य बाह्वोर्। हसन्नभाङ्क्ष्वीद्रघु-नन्दनस्तत् ॥
ततो नदी-ष्णान्पथिकान्गिरि-ज्ञा- नाह्वायकान्भूमि-पतेरयोध्याम् । दित्सुः सुतां योध-हरैस्तुरङ्गैर्व्यसर्जयन्मैथिल-मर्त्य-मुख्यः ॥
क्षिप्रं ततोऽध्वन्य-तुरङ्ग-यायी यविष्ठ-वद्वृद्ध-तमोऽपि राजा ।आख्यायकेभ्यः श्रुत-सूनु-वृत्ति- र-ग्लान-यानो मिथिलामगच्छत् ॥
वृन्दिष्ठमार्चीद्वसुधा-धिपानां तं प्रेष्ठमेतं गुरु-वद्गरिष्ठम् । सदृङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्तिं यशसा वरिष्ठम् ॥
त्रि-वर्ग-पारीणमसौ भवन्त- मध्यासयन्नासनमेकमिन्द्रः । विवेक-दृश्व-त्वमगात्सुराणां तं मैथिलो वाक्यमिदं बभाषे ॥
हिरण्मयी साल-लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिर-प्रभा । शशाङ्कं-कान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली ॥
लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनामुदवोढ रामः । सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीम्रघु-वर्ग्य-लक्ष्मीम् ॥
सु-प्रातमासादित-संमदं तद्वन्दारुभिः संस्तुतमभ्ययोध्यम् ।अश्वीय-राजन्यक-हास्तिकाऽऽढ्य- मगात्स-राजं बलमध्वनीनम् ॥
विशङ्कटो वक्षसि बाण-पाणिः संपन्न-ताल-द्वयसः पुरस्तात् । भीष्मो धनुष्मानुपजान्वरत्नि- रैति स्म रामः पथि जामदग्न्यः ॥
उच्चैरसौ राघवमाह्वतेदं धनुः स-बाणं कुरु साऽतियासीः। । पराक्रम-ज्ञः प्रिय-सन्ततिस्तं नम्रः क्षितीन्द्रोऽनुनिनीषुरूचे ॥
अनेक-शो निर्जित-राजकस्त्वं पित्नतार्प्सीर्नृप-रक्त-तोयैः । संक्षिप्य संरम्भम-सदू-विपक्षं काऽऽस्थाऽर्भकेऽस्मिंस्तव राम ! रामे ॥
अजीगणद्दशरथं न वाक्यं यदा स दर्पेण तदा कुमारः । धनुर्व्यकार्क्षीद्गुरु-बाण-गर्भं लोकानलावीद्विजितांश्च तस्य ॥
जिते नृपाऽरौ सुमनीभवन्ति शब्दायमानान्य-शनैर्-शङ्कम् । वृद्धस्य राज्ञोऽनुमते बलानि जगाहिरेऽनेक-मुखानि मार्गान् ॥
अथ पुरु-जव-योगान्नेदयद्दूर-संस्थं दवयदति-रयेण प्राप्तमुर्वी-विभागम् । क्लम-रहितमचेतन्नीरजीकारित-क्ष्मां बलमुपहित-शोभां तूर्णमायादयोध्याम् ॥