अप-मन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान् । "अ-शोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम् ॥
तं नो देवा विधेयासुर्येन रावण-वद्वयम् । सपत्नांश्चऽधिजीयास्म संग्रामे च मृषीमहि ॥
क्रियेरंश्च दशाऽऽस्येन यथाऽन्येनाऽपि नः कुले । देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः ॥
स एव घारयेत्प्राणानीदृशे बन्धु-विप्लवे । भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः ॥
म्रियेयोर्ध्वं मुहूर्ताद्धि न स्यास्त्वं यदि मे गतिः ।आशंसा च हि नः प्रेते जीवेम-दशमूर्धनि ॥
प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम् । यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः।" ॥
आमन्त्रयेत तान्प्रह्वान्मन्त्रिणोऽथ विभीषणः । "गच्छेत त्वरितं लङ्कां राज-वेश्म विशेत च ॥
आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः ।उद्धुनीयात सत्-केतून्निर्हरेताऽग्र्य-चन्दनम् ॥
मुञ्चेताऽऽकाश-धूपांश्च ग्रथ्नीयात स्रजः शुभाः ।आनयेताऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम् ॥
उह्येरन्यज्ञ पात्राणि ह्रियेत च विभावसुः । भ्रियेत चाऽऽज्यमृत्विग्भिः कल्प्येत च समित्-कुशम् ॥
स्नानीयैः स्नापयेताऽऽशु रम्यैर्लिम्पेत वर्णकैः ।अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर्दशाऽऽननम् ॥
वासयेत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम् । ऋत्विक्स्रग्विणमादध्यात्प्राङ्-मूर्धानं मृगाऽजिने ॥
यज्ञ-पात्राणि गोत्रेषु चिनुयाच्च यथा-विधि । जुहुयाच्च हविर्वह्नौ गायेयुः साम सामगाः।" ॥
गत्वाऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम् । समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम् ॥
"कृतं सर्वं यथोद्दिष्टं कर्तुं वह्नि-जल-क्रियाम् । प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः ॥
अज्ञा-वन्नोत्सहेथास्त्वं धेया धीर-त्वम-च्युतम् । स्थेयाः कार्येषु बन्धूनां हेयाः शोकोद्भवं तमः ॥
नाऽवकल्प्यमिदं ग्लायेद्यत्कृच्छ्रेषु भवानपि । न पृथग्-जन-वज्जातु प्रमुह्येत्पण्डितो जनः ॥
यच्च यत्र भवांस्तिष्ठेत्तत्राऽन्यो रावणस्य न । यच्च यत्र भवान्सीदेन्महद्भिस्तद्विगर्हितम् ॥
आश्चर्यं यच्च यत्र त्वां प्रब्रूयाम वयं हितम् ।अपि साक्षात्प्रशिष्यास्त्वं कृच्छ्रेष्विन्द्र-पुरोहितम् ॥
कामो जनस्य"जह्यास्त्वं प्रमादं नैरृताऽधिप !" ।उत द्विषोऽनुशोचेयुर्विप्लवे किमु बान्धवाः ॥
स भवान्भ्रातृ-वद्रक्षेद्यथावदखिलं जनम् । न भवान्संप्रमुह्येच्चेदाश्वस्युश्च निशाचराः ॥
ततः स गतवान्कर्तुं भ्रातुरग्नि-जल-क्रियाम्। । प्रोक्तवान्कृत-कर्तव्यं वचो रामोऽथ राक्षसम् ॥
अम्भांसि रुक्म-कुम्भेन सिञ्चन्मूर्धि समाधिमान् । "त्वं राजा रक्षसां लङ्का- मवेक्षेथा विभीषन ? ॥
क्रुद्धाननुनयेः सम्यक्धनैर्लुब्धानुपार्जयेः । मानिनो मानयेः काले त्रस्तान्पौलस्त्य ! सान्त्वयेः ॥
इच्छा मे परमा नन्देः कथं त्वं वृत्र-शत्रु-वत् ।इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत् ॥
वर्धिषीष्टाः स्वजातेषु वध्यास्त्वं रिपु-संहतीः । भूयास्त्वं गुणिनां मान्यस्तेषां स्थेया व्यवस्थितौ ॥
धेयास्त्वं सुहृदां प्रीतिं वन्दिषीष्ठा दिवौकसः । सोमं पेयाश्च हेयाश्च हिंस्रा हानि-करीः क्रियाः ॥
अवसेयाश्च कार्याणि धर्मेण पुर-वासिनाम् ।अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने ॥
घानिषीष्ट त्वया मन्युर्ग्राहिषीष्ट समुन्नतिः । रक्षोभिर्दर्शिषीष्ठास्त्वं द्रक्षीरन्भवता च ते ॥
मन्युं वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् ! शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः । संरंसीष्ठाः सुर-मुनि-गते वर्त्मनि प्राज्य-धर्मे संभुत्सीष्ठाः सु-नय-नयनैर्विद्विषामीहितानि।" ॥