ततो वि-निद्रं कृत-देवताऽर्चं दृष्ट्यैव चित्त-प्रशमं किरन्तम् ।आविष्कृताऽङ्ग-प्रतिकर्म-रम्यं विभीषणं वाचमुवाच माता ॥
"प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्य ।आनन्दनो नाक-सदां प्रशान्तिं तूर्णं विषस्याऽमृत-वत्कुरुष्व ॥
कुर्यास्तथा येन जहाति सीतां विषाद-नीहार-परीत-मूर्तिम् । स्थितां क्षितौ शान्त-शिखा-प्रतानां तारामिव त्रास-करीं जनस्य ॥
यावन्न संत्रासित-देव-संघः पिण्डो विषस्येव हरेण भीष्मः । संग्रस्यतेऽसौ पुरुषाऽधिपेन द्रुतं कुलाऽऽनन्द ! यतस्व तावत् ॥
हता जनस्थान सदो निकायाः कृता जितोत्खात-भट-द्रुमा पूः । सदांसि दग्धानि विधेयमस्मिन्यद्बन्धुना तद्घटयस्व तस्मिन्।" ॥
चिकीर्षिते पूर्व-तरं स तस्मिन्क्षेमं-करेऽर्थे मुहुरीर्यमाणः । मात्राऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात् ॥
दौवारिकाऽभ्याहत-शक्र-दूतं सोपायनोपस्थित-लोक-पालम् । साऽऽशङ्क-भीष्माऽऽप्त-विशन्-निशाटं द्वारं ययौ रावण-मन्द्रिरस्य ॥
दूरात्प्रतीहार-नतः स वार्तां पृच्छन्ननावेदित-संप्रविष्टः । स-गौरवं दत्त-पथो निशाटै- रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम् ॥
कृशानु-वर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षय-मेघ-भीमम् । निसर्ग-तीक्ष्णं नयन-स्फुलिङ्गं युगान्त-वह्नेरिव धूम-राशिम् ॥
प्रीत्याऽपि दत्तेक्षण-सन्निपातं भयं भूजङ्गाऽधिप-वद्दधानम् । तमः-समूहाऽऽकृतिमप्यशेषा- नूर्जा जयन्तं प्रथित-प्रकाशान् ॥
तं रत्न-दायं जित-मृत्यु-लोका रात्रिं-चराः कान्ति-भृतोऽन्वसर्पन् । प्रमुक्त-मुक्ता-फलमम्बु-वाहं संजात-तृष्णा इव देव-मुख्याः ॥
स किङ्करैः कल्पितमिङ्गित-ज्ञैः संबाधकं पूर्व-समागतानाम् । सिंहासनोपाश्रित-चारु-बाहु- रध्यास्त पीठं विहित-प्रणामः ॥
ततो दशाऽऽस्यः क्षुभिताऽहि-कल्पं दीप्राऽङ्गुलीयोपलमूढ-रत्नम् ।अनेक-चञ्चन्-नख-कान्ति-जिह्वं प्रसार्य पाणिं समितिं बभाषे ॥
"शक्तैः सुहृद्भिः परिदृष्ट-कार्यै- राम्नातिभिर्नीतिषु बुद्धि-मद्भिः । युष्मद्-विधैः सार्धमुपाय-विद्भिः सध्यन्ति कार्याणि सु-मन्त्रितानि ॥
उपेक्षिते वालि-खराऽऽदि-नाशे दग्धे पुरेऽक्षे निहते स-भृत्ये । सैन्ये द्विषां सागरमुत्तितीर्षा- व-नन्तरं ब्रूत यदत्र युक्तम्।" ॥
भुजांऽस-वक्षः-स्थल-कार्मुकाऽसीन्गदाश्च शूलानि च यातुधानाः । परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्त-प्रमुखा दशाऽऽस्यम् ॥
"अ-खण्ड्य-मानं परिखण्ड्य शक्रं त्वं पण्डितं-मन्यमुदीर्ण-दण्डः । नराऽऽभियोगं नृ-भुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम् ॥
निर्यत्-स्फुलिङ्गाऽऽकुल-धूम-राशिं किं ब्रूहि भूमौ पिनषाम भानुम् ।आ दन्त-निष्पीडित-पीतमिन्दुं ष्ठीवाम शुष्केक्षु-लताऽस्थि-कल्पम् ॥
स-राघवैः किं बत वानरैस्तैर्यैः प्रातराशोऽपि न कस्यचिन्नः । स-स्थाणु-कैलास-धारऽभिधत्स्व किं द्यौरधोऽस्तु क्षितिरन्तरीक्षे ॥
चापल्य-युक्तस्य हरेः कृशानुः समेधितो वालधि-भाक्त्वदीयैः । शस्त्रेण वध्यस्य गलन्नधाक्षीद्राजन् ! प्रमादेन निजेन लङ्काम्।" ॥
अथाऽञ्चितोरस्कमुदीर्ण-दृष्टिः कृत्वा विवक्षा-प्रवणं शरीरम् । विवृत्त-पाणिर्विहितोत्तराऽर्थं विभीषणोऽभाषत यातुधानान् ॥
"युद्धाय राज्णा सुभृतैर्भवद्भिः संभावनायाः सदृशं यदुक्तम् । तत्प्राण-पण्यैर्वचनीयमेव प्रज्ञा तु मन्त्रेऽधिकृता न शौर्यम् ॥
यच्चापि यत्ना-ऽऽदृत-मन्त्र-वृत्तिर्गुरु-त्वमायाति नराऽभियोगः । वशीकृतेन्द्रस्य कृतोत्तरोऽस्मिन्विध्वंसिताऽशेष-पुरो हनूमान् ॥
अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश्चेत् । विमृश्य तद्देव-धियाऽभिधत्त ब्रह्माऽस्त्र-बन्धोऽपि यदि प्रमादः ॥
जगन्त्यमेयाऽद्भुत-भाव-भाञ्जि जिताऽभिमानाश्च जना विचित्राः । कार्ये तु यत्नं कुरुत प्रकृष्टं मा नीति-गर्भान्सु-धियोऽवमन्ध्वम् ॥
वृद्धि-क्षय-स्थान-गतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः । घटेत सन्ध्याऽऽदिषु यो गुणेषु लक्ष्मीर्न तं मुञ्चति चञ्चलाऽपि ॥
उपेक्षणीयैव परस्य वृद्धिः प्रनष्ट-नीतेरजितेन्द्रयस्य । मदाऽऽदि-युक्तस्य विराग-हेतुः स-मूल-घातं विनिहन्ति याऽन्ते ॥
जनाऽनुरागेण युतोऽवसादः फलाऽनुबन्धः सुधियाऽऽत्मनोऽपि ।उपेक्षणीयोऽभ्युपगम्य संधिं कामाऽऽदि-षड्-वर्ग-जिताऽधिपेन ॥
यदा विगृह्णन्न च संदधानो वृद्धिं क्षयं चाऽनुगुणं प्रपश्येत् ।आसीत राजाऽवसर-प्रतीक्षस्तदा प्रयासं वितथं न कुर्यात् ॥
संधौ स्थितो वा जनयेत्स्व-वृद्धिं हन्यात्परं वोपनिषत्प्रयोगैः ।आश्रावयेदस्य जनं परैर्वा विग्राह्य कुर्यादवहीन-संधिम् ॥