Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 11

Kāṇḍa 3 Sūkta 11

काण्डम् 3 • सूक्तम् 11

Kāṇḍa 3 Sūkta 11 of the Shaunaka Saṁhitā of Atharvaveda with 8 mantras.

Total: 8 Verses • Citations: AV 3.11.1–8 • 2 Lexicon Terms
दीर्घायुः प्राप्तिः।
१-८ ब्रह्मा, भृग्वङ्गिराश्च। इन्द्राग्नी, आयुष्यं, यक्ष्मनाशनम्। त्रिष्टुप्, ४ शक्करीगर्भा जगती,
५-६ अनुष्टुप्, ७ उष्णिग्बृहतीगर्भा पथ्यापङ्क्तिः, ८ त्र्यवसाना षट् पदा बृहतीगर्भा जगती।
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्।
ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम्
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व।
तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय
स॒ह॒स्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्।
इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम्
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान् छ॒तमु॑ वस॒न्तान्।
श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम्
प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्।
व्य॑१न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान् छ॒तम्
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्।
शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑
ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा ।
ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॑१न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान् छ॒तम्
अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा ।
यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑ ।
तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द् बृह॒स्पतिः॑
← Previous (Ch. 81) Full Table of Contents Next (Ch. 83) →