Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 10

Kāṇḍa 3 Sūkta 10

काण्डम् 3 • सूक्तम् 10

Kāṇḍa 3 Sūkta 10 of the Shaunaka Saṁhitā of Atharvaveda with 13 mantras.

Total: 13 Verses • Citations: AV 3.10.1–13 • 2 Lexicon Terms
रायस्पोषप्राप्तिः।
१-१३ अथर्वा। अष्टका, धेनुः, २-४ रात्रिः, धेनुः, ५ एकाष्टका, ६ जातवेदाः, पशवः, ७ रात्रिः, यज्ञ ८ संवत्सरः,
९ ऋतवः, १० धाता विधातारौ, ऋतवः, ११ देवाः, १२ इन्द्रः, देवाः, १३ प्रजापतिः।
अनुष्टुप्, ४-६,१२ त्रिष्टुप् ७ त्र्यवसाना षट्पदा विराड् गर्भातिजगती।
प्र॒थ॒मा ह॒ व्युऽवास॒ सा धे॒नुर॑भवद् य॒मे।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्
यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमु॑पाय॒तीम्।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली
सं॒व॒त्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे ।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा ।
म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री
वा॒न॒स्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्।
एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम्
इडा॑यास्प॒दं घृ॒तव॑त् सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय ।
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां सप्ता॒नां मयि॒ रन्ति॑रस्तु
आ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म ।
पू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त ।
सर्वान् य॒ज्ञान्त्सं॑भुञ्ज॒तीषमूर्जं॑ न॒ आ भ॑र
आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑ ।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज
ऋ॒तून् य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।
समाः॑ संवत्स॒रान् मासा॑न् भू॒तस्य॒ पत॑ये यजे
ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑ ।
धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे
इड॑या॒ जुह्व॑तो व॒यं दे॒वान् घृ॒तव॑ता यजे ।
गृ॒हानलु॑भ्यतो व॒यं सं वि॑शे॒मोप॒ गोम॑तः
ए॒का॒ष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्।
तेन॑ दे॒वा व्यऽसहन्त॒ शत्रू॑न् ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑
इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः ।
कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः
← Previous (Ch. 80) Full Table of Contents Next (Ch. 82) →