Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 1

Kāṇḍa 2 Sūkta 1

काण्डम् 2 • सूक्तम् 1

Kāṇḍa 2 Sūkta 1 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 2.1.1–5 • 2 Lexicon Terms
परमं धाम
१-५ वेनः। ब्रह्म, आत्मा। त्रिष्टुप्, ३ जगती।
वे॒नस्तत् प॑श्यत् पर॒मं गुहा॒ यद् यत्र॒ विश्वं॒ भव॒त्येक॑रूपम्।
इ॒दं पृश्नि॑रदुह॒ज्जाय॑मानाः स्व॒र्विदो॑ अ॒भ्यऽनूषत॒ व्राः
प्र तद् वो॑चेद॒मृत॑स्य वि॒द्वान् ग॑न्ध॒र्वो धाम॑ पर॒मं गुहा॒ यत्।
त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुष्पि॒तास॑त्
स नः॑ पि॒ता ज॑नि॒ता स उ॒त बन्धु॒र्धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ ।
यो दे॒वानां॑ नाम॒ध एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यन्ति॒ सर्वा॑
परि॒ द्यावा॑पृथि॒वी स॒द्य आ॑य॒मुपा॑तिष्ठे प्रथम॒जामृ॒तस्य॑ ।
वाच॑मिव व॒क्तरि॑ भुवने॒ष्ठा धा॒स्युरे॒ष न॒न्वे॒३षो अ॒ग्निः
परि॒ विश्वा॒ भुव॑नान्यायमृ॒तस्य॒ तन्तुं॒ वित॑तं दृ॒शे कम्।
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नाः स॑मा॒ने योना॒वध्यैर॑यन्त
← Previous (Ch. 35) Full Table of Contents Next (Ch. 37) →