Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 1 (Bālakāṇḍa) • Sūkta 35

Kāṇḍa 1 Sūkta 35

काण्डम् 1 • सूक्तम् 35

Kāṇḍa 1 Sūkta 35 of the Shaunaka Saṁhitā of Atharvaveda with 4 mantras.

Total: 4 Verses • Citations: AV 1.35.1–4 • 2 Lexicon Terms
दीर्घायुःप्राप्तिः।
१-४ अथर्वा(आयुष्कामः)। हिरण्यम्, इन्द्राग्नी, विश्वे देवाः। जगती, ४ अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्।
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः ।
तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय
नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒तत्।
यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑
अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्याऽणि ।
इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन् तद् दक्ष॑माणो बिभर॒द्धिर॑ण्यम्
समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि ।
इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः
← Previous (Ch. 34) Full Table of Contents Next (Ch. 36) →