Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 1 (Bālakāṇḍa) • Sūkta 20

Kāṇḍa 1 Sūkta 20

काण्डम् 1 • सूक्तम् 20

Kāṇḍa 1 Sūkta 20 of the Shaunaka Saṁhitā of Atharvaveda with 4 mantras.

Total: 4 Verses • Citations: AV 1.20.1–4 • 2 Lexicon Terms
शत्रुनिवारणम्।
१-४ अथर्वा। १ सोमः, मरुतः, २ मित्रावरुणौ, ३ वरुणः ४ इन्द्रः। अनुष्टुप्, त्रिष्टुप्।
अदा॑रसृद् भवतु देव सोमा॒स्मिन् य॒ज्ञे म॑रुतो मृ॒डता॑ नः ।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद् वृजि॒ना द्वेष्या॒ या
यो अ॒द्य सेन्यो॑ व॒धोऽघा॒यूना॑मु॒दीर॑ते ।
यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑
इ॒तश्च॒ यद॒मुत॑श्च॒ यद् व॒धं व॑रुण यावय ।
वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम्
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः ।
न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न
← Previous (Ch. 19) Full Table of Contents Next (Ch. 21) →