Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 1 (Bālakāṇḍa) • Sūkta 19

Kāṇḍa 1 Sūkta 19

काण्डम् 1 • सूक्तम् 19

Kāṇḍa 1 Sūkta 19 of the Shaunaka Saṁhitā of Atharvaveda with 4 mantras.

Total: 4 Verses • Citations: AV 1.19.1–4 • 2 Lexicon Terms
शत्रुनिवारणम्।
१-४ ब्रह्मा। ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः)।
अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः।
मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्।
आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय
विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः ।
दैवी॑र्मनुष्येषवो॒ ममा॒मित्रान् वि वि॑ध्यत
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ।
रु॒द्रः श॑रव्य ऽ यै॒तान् ममा॒मित्रा॒न् वि वि॑ध्यतु
यः स॒पत्नो॒ योऽस॑पत्नो॒ यश्च॑ द्वि॒षन् छपा॑ति नः ।
दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम्
← Previous (Ch. 18) Full Table of Contents Next (Ch. 20) →