Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 29

Kāṇḍa 5 Sūkta 29

काण्डम् 5 • सूक्तम् 29

Kāṇḍa 5 Sūkta 29 of the Shaunaka Saṁhitā of Atharvaveda with 15 mantras.

Total: 15 Verses • Citations: AV 5.29.1–15 • 2 Lexicon Terms
रक्षोघ्नम्।
१-१५ चातनः। जातवेदाः, मन्त्रोक्ताः। त्रिष्टुप्, ३ त्रिपदा विराण्नाम गायत्री, ५ पुरोऽतिजगती विराड्-जगती,१२-१५ अनुष्टुप् ( १२ भुरिक्, १४ चतुष्पदा पराबृहती ककुम्मती।
पु॒रस्ता॑द् यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम्।
त्वं भि॒षग् भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम
तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः ।
यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति
यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति तथा॒ तद॑ग्ने कृणु जातवेदः ।
विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः
अ॒क्ष्यौ॒३नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि ।
पि॒शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने यविष्ठ॒ प्रति॒ तं शृ॑णीहि
यद॑स्य हृ॒तं विहृ॑तं॒ यत् परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑तम॒त् पि॑शा॒चैः ।
तद॑ग्ने वि॒द्वान् पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः
आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑ ।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३यम॑स्तु
क्षि॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒३यः ।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३यम॑स्तु
अ॒पां मा॒ पाने॑ यत॒मो द॒दम्भ॑ क्र॒व्याद् या॑तू॒नां शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३यम॑स्तु
दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्रव्या॒द् या॑तू॒नां शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३यम॑स्तु
क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः ।
तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न् न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षतः॒ दैव्या॑याः
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत् परा॑भृतम्।
गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम्
सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्।
अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु
ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः ।
तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः
ता॒र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑ ।
जहा॑तु क्र॒व्याद् रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति
← Previous (Ch. 170) Full Table of Contents Next (Ch. 172) →