Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 28

Kāṇḍa 5 Sūkta 28

काण्डम् 5 • सूक्तम् 28

Kāṇḍa 5 Sūkta 28 of the Shaunaka Saṁhitā of Atharvaveda with 14 mantras.

Total: 14 Verses • Citations: AV 5.28.1–14 • 2 Lexicon Terms
दीर्घायुः।
१-१४ अथर्वा। त्रिवृत्, अग्न्यादयः। त्रिष्टुप्, ६ पञ्चपदातिशक्वरी,
७,९-१०,१२ ककुम्मत्यनुष्टुप् १३ पुरउष्णिक्।
नव॑ प्रा॒णान् न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॑ दिश॑श्च ।
आ॒र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु
त्रयः॒ पोषा॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑ ।
अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त इ॒ह श्र॑यन्ताम्
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय ववृधा॒नः ।
इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्येऽणा॒स्मिन् त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑ ।
वी॒रुद्भि॑ष्टे अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम्
त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्।
अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत् ते हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे
त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्।
त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि ते ऽकरम्
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः ।
प्रत्यौ॑हन् मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॑ विश्वा॑
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त् त्वा पा॒त्वर्जु॑नम्।
भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द् देवपु॒रा अ॒यम्
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑ ।
तास्त्वं बिभ्र॑द् वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑ ।
तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे
आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑ ।
अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि
ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा ।
सं॒व॒त्स॒रस्य॒ तेज॑सा॒ तेन॒ संह॑नु कृण्मसि
घृ॒तादुल्लु॑प्तं॒ मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तं पारयि॒ष्णु।
भि॒न्दत् स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय
← Previous (Ch. 169) Full Table of Contents Next (Ch. 171) →