Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 33

Adhyāya 33

अध्यायः 33

Adhyāya 33 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 96 mantras.

Total: 96 Verses • Citations: YV 33.1–96 • 2 Lexicon Terms • Page 4 of 4 (Verses 6 shown)
दि॒वि पृ॒ष्टो अ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन् ।
क्ष्मया॑ वृधा॒न ओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तम॑:
इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त् प॒द्वती॑भ्यः ।
हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रि॒ᳪशत्प॒दा न्य॑क्रमीत्
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कᳪ सरा॑तयः ।
ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विद॑:
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
द॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण
प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रᳪ ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्य॒ᳪ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
इ॒मा उ॑ त्वा यस्या॒यम॒यᳪ स॒हस्र॑मू॒र्ध्व ऊ॒ षु ण॑:
← Previous (Ch. 32) Full Table of Contents Next (Ch. 34) →