यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये तृण॒ᳪ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये तृण॒ᳪ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेध॑ᳪ शृत॒पाकं॑ पचन्तु
मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु
ये चार्व॑तो माᳪसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु
ऊ॒ष्म॒ण्या॒पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म्
इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒: प्रति॑ गृभ्ण॒न्त्यश्व॑म्
यच्च॑ पपौ॒ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ विश॑स्त
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ता-ता॒ पिण्डा॑नां॒ प्र जु॑होम्यग्नौ
मा ते॑ गृ॒ध्नुर॑विश॒स्ताऽति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताᳪ ह॒विष्मा॑न्
आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत् ।
य॒ज्ञं च॑ नस्त॒न्वं॒ च प्र॒जां चा॑दित्यै॒रिन्द्र॑: स॒ह सी॑षधाति
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑: ।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः