नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪशि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪस॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑:
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत्
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम्
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि